मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 37, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २९ मकरन्दः—हन्त, महतः प्रथमानुरागस्योद्भेदः । कलहंसः—^१एदाणं सरसरमणिज्जाणुबन्धिणी क्खु इत्थिआ- कहा । मकरन्दः—ततस्ततः । माधवः— अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि मान्मथमाविरासीत् ॥ २९ ॥
१. अनयोः सरसरमणीयानुबन्धिनी खलु स्त्रीकथा । तेन रणरणायमानं मनोज्ञं यन्मञ्जीरं नूपुरं तस्य रणितेन शिञ्जितेनानुविद्धः संभिन्नो यः काञ्चीदामनिविष्टक्षुद्रघण्टिकारणरणत्कारस्तेन मुखरं यथा स्यात्तथेति । किमि- त्याख्यातवत्य इत्यपेक्षायां भर्तृदारिके दिष्ट्या भाग्येन वर्धामहे । यस्मादत्रैव प्रदेशे ‘या लतान्विष्यते सैव लता संप्रति पादयोः’इति रीत्या पुरत एव कोऽप्ययम् । असा- विति साक्षान्निर्देश्टमनुचितत्वात्सप्रच्छादनाय सामान्योक्तिः । कस्या अपीत्यत्रापि तवैवानौचित्याद्गूढोक्तिः । वल्लभो दयितस्तिष्ठतीति । केचित्तु स्त्रीलिङ्गमप्ययुक्तं मन्यमानाः ‘कस्यापि’ इति पठित्वा जनस्येति व्याचक्षते ॥ मकरन्दः । हन्तेति हर्षे । महतोऽतिप्ररूढस्य पूर्वानुरागस्योद्भेदः प्रकाशः । प्रतिभातीति शेषः । उद्भेदो नाम मुखसंध्यङ्गम् । यथा—‘उद्भेदो गूढभेदनम्’इति॥कलहंसः। अनयोः सरसरमणीयानुबन्धिनीत्यविच्छिन्ना स्त्रीकथा । वर्तत इति शेषः । मकरन्दः— ततस्तत इति ॥ माधवः-अत्रान्तर इति । अस्मिन्नवसरे आयताक्ष्या- स्तस्या मान्मथमाचार्यकम् । मन्मथ एव हि कुमारीजनस्यात्यन्तापरिचिततादा- त्मिको दीयमानविविधविलासशिक्षायामाचार्यः । तस्याचार्यकमाचार्यभावः । ‘योपधाद्गुरूपोत्तमाद्वुञ्’ । विविधशृङ्गारचेष्टाशिक्षाप्रावीण्यमाविरासीत्प्रादुर्भूत् । कीदृशम् । वाग्विभवातिवृत्तवैचित्र्यमुक्तिप्रकारसर्वस्वोल्लङ्घिविचित्रभावम् । अत एव किमपि विशेषतो निर्देष्टुमशक्यम् । उल्लसितो विभ्रमो यत्र । विभ्रमः शृङ्गारचेष्टा- विशेषः । यथा—‘वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः । त्वरया कल्पितोऽभीष्टद- र्शने यः स विभ्रमः ॥’ इति । तन्मनसैव केवलमनुसंधीयमानं भूरिसात्त्विकवि- कारं प्रचुरतरस्तम्भादिसात्त्विकभावम् । सात्त्विकभावादिर्यदुक्तम्—‘तद्भावभावनं येन भवेत्तदनुकूलतः । तत्सत्त्वं तेन निर्वृत्ताः सात्त्विका इत्युदीरिताः ॥’ यथा— ‘स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥’ इति । अपास्तधैर्यमन्योन्यदर्शनादुभयोरप्यपाकृतचित्तस्थैर्यम् । विजयि जयशीलम् । कुत्राप्यकुण्ठितप्रसरमिति । अत्र परिपूर्णशृङ्गारानुभवनिबन्धना-