भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 38, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 38

३० मालतीमाधवे ततश्च । स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयनविपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ३० ॥ तदुचितमोहावेगादिव्यभिचारिप्रतीतेरालम्बनोद्दीपनविभावसंनिधानपूर्णः शृङ्गारर- सध्वनिः । परिकरश्चालंकारः ॥ २९ ॥ अतश्च चिरकालप्रवृत्तस्य गरीयसः पूर्वानु- रागस्य शब्दविकल्पस्मरणसंतानोपचितस्य जीवितसर्वस्वायमानस्य तस्यैव साल- म्बनविभावस्य सांमुख्यादन्योन्यकटाक्षमिश्रीभावादुत्पूरस्य सुधाकरकरस्पर्शादिव क्षीरसागरस्यापूरितान्तरतया परिपूर्णकुम्भोच्छलनन्यायेन मुहुर्बहिरुच्छलतो निरति- शयपरिपोषात्मिकां रसतामापन्नस्य तरङ्गच्छटा इव प्रथमानुभावभूताः शृङ्गारदृष्टयो मदालम्बनाः प्रादुरासन्नित्याह—ततश्च । स्तिमितेति । अहमालोकितानां शृङ्गा- रदृष्टिविशेषाणां विविधं पात्रमभूवम् । 'प्रसादललिता कान्ता शालिनी मन्मथा- शया । विचलद्भ्रूकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥' इति । तद्विशेषं दर्शयितुं विशिनष्टि—स्तिमितानामुन्मीलनानन्तरमेव पुरोवर्तिनि मयि निपत्य दर्शनलोभेन तत्रैव विषये निश्चलानाम् । स्तिमितं नाम शृङ्गारदृष्टिविकारः । यथा—'खगोच- रान्न चाल्येत यत्तत्स्तिमितमुच्यते' इति । ततो विकसितानां विषयगताशेषविशे- षग्राहिणाम् । विकसितदृष्टिविकारो यथा—'विकासितं यद्विषये विशेषमवगाहते' इति । अतो विषयाह्लादजन्मानन्दभावनयोल्लसन्ती किंचिदुच्छ्वसन्ती चतुराख्य- भ्रूकर्मसहिता भ्रूलता येषाम् । चतुरं नाम भ्रूकर्म । यथा—'चतुरं किंचिदुच्छ्वासा- न्मधुरा रचना भ्रुवोः' इति । प्रसन्नाख्यश्वानेन दृष्टिविकार उक्तः । यथा— 'प्रसन्नं तद्भवेत्सभ्रूविलासं सस्मितं च यत्' इति । अतो मसृणानामनुरागपेशला- नाम् । मसृणदृष्टिविकारो यथा—'मसृणं तत्तु विज्ञेयमनुरागकषायितम्' इति । ततः सुखपारवश्यान्मुकुलितानामुन्मीलितानाम् । मुकुलिता दृष्टिरनेनोक्ता । मुकुलि- ताख्यश्च दृष्टिविकारो यथा—'स्फुरिताश्लिष्टपक्ष्मोग्रा मुकुलोर्ध्वपुटोच्छ्रिता । सुखो- न्मीलिततारा च मुकुला दृष्टिरिष्यते । दृष्टिर्मुकुलिता स्वप्नसुखनिद्रासु वर्तते ॥' इति । अनेन विकूणिताख्यदृष्टिविकार उक्तः॥ विकूणितं यथा—'भागत्रयस्य संकोचो विकासस्त्वपरस्य च । यस्या दृष्टेर्विलक्षणेन तद्विकूणितमुच्यते ॥' इति । ततः पुनर्दर्श- नष्टदृष्ट्या प्रान्तेऽपाङ्गदेशे विस्तारभाजां विसृत्वराणाम् । सम्यगाश्लिष्टविषयाणामि- ति यावत् । अपाङ्गदृष्टिर्हि तत्रैव निपतन्ती सम्यग्विषयं परिच्छिनत्ति । अनेन विस्तारी सस्पृष्टश्चेति दृष्टिविकारद्वयमुक्तम् । यथा—'येनाश्लिष्टो हि विषयस्तद्वि- स्तारीति कथ्यते । भूयोभूयः स्पृहा यत्र दृष्टेस्तत्सस्पृहं भवेत् ॥' इति । ततः प्रतिनयनस्य तदवलोकनाय प्रहितस्य मन्नेत्रस्य निपात आभिमुख्येन युगपदुपस्थाने लज्जया किंचिदाकुञ्चितानामीषत्संकुचितानाम् । संकुचितं नाम दृष्टिविकारो यथा— 'अपाङ्गभागसंकोचो यत्र तत्कुञ्चितं भवेत्' इति । बहुवचनेन धारावाहिन्यायेन

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 38, कुल 377 में से · BharatKosha