मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 38, कुल 377 में से
संदर्भ में पढ़ें३० मालतीमाधवे ततश्च । स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयनविपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ३० ॥ तदुचितमोहावेगादिव्यभिचारिप्रतीतेरालम्बनोद्दीपनविभावसंनिधानपूर्णः शृङ्गारर- सध्वनिः । परिकरश्चालंकारः ॥ २९ ॥ अतश्च चिरकालप्रवृत्तस्य गरीयसः पूर्वानु- रागस्य शब्दविकल्पस्मरणसंतानोपचितस्य जीवितसर्वस्वायमानस्य तस्यैव साल- म्बनविभावस्य सांमुख्यादन्योन्यकटाक्षमिश्रीभावादुत्पूरस्य सुधाकरकरस्पर्शादिव क्षीरसागरस्यापूरितान्तरतया परिपूर्णकुम्भोच्छलनन्यायेन मुहुर्बहिरुच्छलतो निरति- शयपरिपोषात्मिकां रसतामापन्नस्य तरङ्गच्छटा इव प्रथमानुभावभूताः शृङ्गारदृष्टयो मदालम्बनाः प्रादुरासन्नित्याह—ततश्च । स्तिमितेति । अहमालोकितानां शृङ्गा- रदृष्टिविशेषाणां विविधं पात्रमभूवम् । 'प्रसादललिता कान्ता शालिनी मन्मथा- शया । विचलद्भ्रूकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥' इति । तद्विशेषं दर्शयितुं विशिनष्टि—स्तिमितानामुन्मीलनानन्तरमेव पुरोवर्तिनि मयि निपत्य दर्शनलोभेन तत्रैव विषये निश्चलानाम् । स्तिमितं नाम शृङ्गारदृष्टिविकारः । यथा—'खगोच- रान्न चाल्येत यत्तत्स्तिमितमुच्यते' इति । ततो विकसितानां विषयगताशेषविशे- षग्राहिणाम् । विकसितदृष्टिविकारो यथा—'विकासितं यद्विषये विशेषमवगाहते' इति । अतो विषयाह्लादजन्मानन्दभावनयोल्लसन्ती किंचिदुच्छ्वसन्ती चतुराख्य- भ्रूकर्मसहिता भ्रूलता येषाम् । चतुरं नाम भ्रूकर्म । यथा—'चतुरं किंचिदुच्छ्वासा- न्मधुरा रचना भ्रुवोः' इति । प्रसन्नाख्यश्वानेन दृष्टिविकार उक्तः । यथा— 'प्रसन्नं तद्भवेत्सभ्रूविलासं सस्मितं च यत्' इति । अतो मसृणानामनुरागपेशला- नाम् । मसृणदृष्टिविकारो यथा—'मसृणं तत्तु विज्ञेयमनुरागकषायितम्' इति । ततः सुखपारवश्यान्मुकुलितानामुन्मीलितानाम् । मुकुलिता दृष्टिरनेनोक्ता । मुकुलि- ताख्यश्च दृष्टिविकारो यथा—'स्फुरिताश्लिष्टपक्ष्मोग्रा मुकुलोर्ध्वपुटोच्छ्रिता । सुखो- न्मीलिततारा च मुकुला दृष्टिरिष्यते । दृष्टिर्मुकुलिता स्वप्नसुखनिद्रासु वर्तते ॥' इति । अनेन विकूणिताख्यदृष्टिविकार उक्तः॥ विकूणितं यथा—'भागत्रयस्य संकोचो विकासस्त्वपरस्य च । यस्या दृष्टेर्विलक्षणेन तद्विकूणितमुच्यते ॥' इति । ततः पुनर्दर्श- नष्टदृष्ट्या प्रान्तेऽपाङ्गदेशे विस्तारभाजां विसृत्वराणाम् । सम्यगाश्लिष्टविषयाणामि- ति यावत् । अपाङ्गदृष्टिर्हि तत्रैव निपतन्ती सम्यग्विषयं परिच्छिनत्ति । अनेन विस्तारी सस्पृष्टश्चेति दृष्टिविकारद्वयमुक्तम् । यथा—'येनाश्लिष्टो हि विषयस्तद्वि- स्तारीति कथ्यते । भूयोभूयः स्पृहा यत्र दृष्टेस्तत्सस्पृहं भवेत् ॥' इति । ततः प्रतिनयनस्य तदवलोकनाय प्रहितस्य मन्नेत्रस्य निपात आभिमुख्येन युगपदुपस्थाने लज्जया किंचिदाकुञ्चितानामीषत्संकुचितानाम् । संकुचितं नाम दृष्टिविकारो यथा— 'अपाङ्गभागसंकोचो यत्र तत्कुञ्चितं भवेत्' इति । बहुवचनेन धारावाहिन्यायेन