भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 357, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 357

अङ्कः ९ ] मालतीमाधवटीका । १०९ पृ० पं० २१० ४ ०माविर्भूतशिलीन्ध्र० । ९ ०मासाद्य एतेऽङ्गना० । १० ०श्रीवाहिणो वा० । जयोः सौम्यः' इति शाश्वतः । प्रियालिङ्गने सुखं तद्विरहे दुःखमिति त्वमपि जाना- सीति ध्वनितम् । यद्वा कचिद्देवमभिमतं ममेत्यर्थः । उत्पन्नस्नेहेन सुभगाः सुमुखा- श्चातकास्त्वां सेवन्ते । वा समुच्चये । अनेनार्थिसंपत्तिरुक्ता । पुरोवातश्च मृदु- प्रेरणाभिस्त्वां सुखयति । अन्योऽपि सहायश्चरणमुष्टिग्रहणादिरूपसंवाहनं कुरुत इति ध्वनिः । अनेन सहायसंपत्तिरुक्ता । विध्वक्सवेतो लक्ष्मीं शोभां बिभ्र- दिन्द्रधनुः । कर्तृ । लक्ष्म चिह्नं तव तनोति । अनेन प्रसाधनमुक्तम् । विश्वं बिभ्र- दिति पाठे हे विश्वं बिभ्रदुदवनं दधान । वर्षेण सस्यादिसमृद्ध्या जगदुपकारक- त्वमुक्तम् । प्रसाधनमाह । इन्द्रधनूरूपं चिह्नं तव शोभां तनोति । बिम्बं बिभ्र- दिति पाठे तु बिम्बं मण्डलं शोभां तनोति । कीदृशम् । इन्द्रधनुश्छिन्नं बिभ्रद्- धानम् । तदिह जगदुपकारकत्या ममाप्युपकारं करिष्यसीति भावः ॥ २५ ॥ गर्जितेनानुमतिमाह—अयेति । प्रतिशब्दभरितकन्दरत्वेनानन्दिता समृद्धो- त्कण्ठा यस्य सः । यद्वा आनन्दिता हृष्टा उत्कण्ठा उद्ग्रीवा इत्यर्थः । मन्द्रं गभीरम् । अनुमन्यते स्वीकरोति । आर्तिवशाद्देवत्वारोपेण भगवन्निति । अवधा- रणे यावत् । जीमूत मेघ ॥ दैवादित्यादि । इच्छया जगति विचरंस्त्वं मत्प्रियां यदि दैववशात्पश्येर्दृक्ष्यसि तदा प्रथमं तां प्रबोध्याथ माधवदशां कथयि- ष्यासि । अवस्थानिवेदनेन तन्मरणमाशङ्क्याह—कथयता लयाशा पुनःसंगमप्र- त्याशा सैव तन्तुः । जीवनबन्धहेतुत्वात् । नैवाल्यर्थमुच्छेदः । च एवार्थे । अत्र हेतुमाह—स आशातन्तुरेकस्तस्याः प्राणत्राणं कष्टात्कष्ट्या करोति नाहमित्यर्थः । इह तावत्कालं सा जीवति न वेति संभावना दर्शनस्य दैवादित्यनेनोक्तम् । प्रस- ङ्गतो मत्कार्यमिति जगति विचरन्नित्यनेनोक्तम् । मत्प्रियामित्यनेन सुकुमारत्वा- दिना विरहदुःखसहिष्णुतोक्ता । आदावाश्वासनं वार्ताश्रवणपटुत्वार्थम् । अत्यन्त- मित्यनेन मध्यमविधया दशाकथनम् । तेन च तन्नैराश्यनिषेध इत्युक्तम् । कथ- मपीत्यनेनाशातन्तुमात्रं तद्रक्षणाय कल्पत इत्युक्तम् । आयताक्ष्या इत्यनेन कटाक्षा- दिस्मरणेन गुणकीर्तनम् । माधवस्येयं माधवीया । वृद्धाच्छः । उन्मादावस्थेयम् । असंबद्धप्रलापात् ॥ २६ ॥ सहर्षत्वं मद्वचनमङ्गीकृत्य प्रचलित इति । मक- रन्दः । उपरागो राहुग्रासः । शैशवे संकटप्रदेशे पित्रादीनां स्मरणस्य स्वभाव- स्ततया विरहसंकटेऽपि तदाह हा तातेति । माधवः । प्रमादोऽनिष्टम् । नवेष्वित्यादि । नूतनलोध्रपुष्पेषु कान्तिः पाण्डिमा गौरत्वं वा । इह नवप- देन स्निग्धतोक्ता । दृशो विलोकितानि हरिणीषु । गमनं हस्तिषु । नम्रत्वं लतासु । इतिशब्द आद्यर्थे । 'हेला लीलेत्यमी हावाः' इतिवत् । प्रमथ्य मारयित्वा मे प्रियाविपिने विभक्ता खण्डखण्डिकृत्य धृता । यद्वा इतिः प्रकारार्थः । तेन लोध्रप्रसवादिभिर्मे प्रिया विभागीकृता । कान्त्यादिविभागद्वारा प्रियाविभाग