मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
DevanagariHindipublished377 पृष्ठ
पृष्ठ 356, कुल 377 में से
संदर्भ में पढ़ेंपृष्ठ 356
१०८ जगद्धरकृता [ अङ्कः ९ पृ० प० २०९ ९ ०कथं प्रतिपत्ति० । १४ माम्भारेषु० । ०तानायते । अविरलज्वालं यथा तथान्तर्ज्वलामीति चिन्ताजनितो दाहः । अन्तरात्मा निरालम्बः सीदन्नवसादं गच्छन्नान्धान्धकारे मज्जतीवेति ग्लानिः । विष्वक्सर्वतो मोहच्छादयतीति मोहः । मन्दभाग्योऽहं किं करोमीति दैन्यम् । कथंशब्दः किमित्यर्थे । सर्वनामलाभान्नार्थता । विष्वगित्यत्र सुषुमादित्वात्षत्वम् ॥ २० ॥ परिदेवितमाह—कष्टमिति बन्धुतेत्यादि । सोऽयं बन्धुसमूहचित्तका- र्तिक्युत्सवो मालतीनेत्रबालचन्द्रो मकरन्दहर्षजनकः सर्वजनतिलकोऽथ प्रलय- मापद्यत इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः ॥ २१ ॥ गात्रेष्वित्यादि । यस्त्वं मम काये चन्दनरस आसीः । सुखस्पर्शत्वात् । नेत्रे शर