मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 363, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ९ ] मालतीमाधवटीका । ११५ पृ० पं० २२० १ ॰स्त्वद्यापदो गण० । २ मम० प्रशान्तम् । ९ ॰नु० खलु मा० । साक्षिणा मया भवि० । १० ॰भवत्वमु- ष्माद्विरि० । २२१ ३ ॰दुल्लसितविस्मया बत० । १२ ॰विमलविधानि० । १३ ॰मकरन्दानन्दनमुखचन्द्र मा० । एतेन व्याधिरुक्तः । सर्वतस्तमः प्रसरतीव । अनेन जडता । सकलेन्द्रियाणामप्र- ह्वात् । जडतानन्तरं मरणशङ्कायामाश्वास एष युक्त इत्याह—त्वरिति । खलु निश्चये । यत एवं ततो नेत्रप्रीतिं देहि । स्वं दर्शयेत्यर्थः । मद्विषये निर्दया मा भविष्यसि । यद्वा अकरणा मा भूर्न भव । 'माङि लुङ्' इति कालसामान्ये लुङ् । पूर्वकरणे- दानीमपि निर्वाह्यतामित्यर्थः । इवशब्द उत्प्रेक्षायाम् ॥ ४६ ॥ निरित्यादि । यदा मालत्याः पद्माक्ष्याः कामोन्मादोद्वेगा निर्विघ्ना अत्यर्थं दुःसहा अङ्गदाहदुःख- महान्तस्तद्दुःखोपदेशकाराः संबभूवुः । संभूयोद्गतास्तत्र काले तस्यास्त्वदालिङ्गन- मेव शीघ्रं प्राणरक्षमभूत् । अत एव मदालिङ्गनतुल्यः । उन्माथ उन्मथनमुद्वेग इति यावत् । प्रगुणमिति पाठे प्रकृष्टगुणमित्यर्थः । क्रियाविशेषणं वा । कामदुःखो- द्वेगस्य प्रियसङ्गस्याभावाद्विघ्नत्वम् । मालतीप्रणयित्वात्प्रियसखि इति । दुःसह- त्वमधृतिकरणात् । उद्दाह उद्गतदाहः । व्यसनस्थाने 'व्यथन' इति पाठे व्यथनं पीडा । अधुना मालां विनास्याः कथं जीवनं भविष्यतीति भावः ॥ ४७ ॥ निर्वर्ण्य निरूप्य । आनन्देत्यादि । मम मालत्याश्च कण्ठे तव तानि गतागतानि स्मरामि । स्मरणस्यातिदुःखदत्वात्कष्टम् । तदा तदा तस्मिंस्तस्मिन्काले । तत्र चोरिकाविवाहात्पूर्वं मालतीकण्ठगतेति गतं लवङ्गिकाबुद्ध्या माधवकण्ठमागतेत्याग- तमित्येकम् । चोरिकाविवाहे मालत्या माधवकण्ठनीतातो गतमथ तन्मुखदर्शना- त्त्वत्कण्ठेऽर्पितेत्यागतमिति द्वितीयम् । पुनस्तत्र प्रणयवशान्माधवेन मालत्यै दत्तेति गतमिदानीं तु सौदामिन्या मालतीसकाशादानीय दत्तेति त्रीणि गतागतानि । अत एव बहुवचनम् । कीदृशानि । तद्दशायामन्तरान्तरा हर्षलाभादानन्दमिश्रितका- मतापप्रकाशनानि । दृढानुरागरसयोगिनि । स्नेहस्याकरो येषु तानि । स्नेहं प्रीति- माकुर्वन्ति व्याकुर्वन्तीति स्नेहाकाराणि । 'कृञो हेतु-' इत्यादिना टप्रत्ययः । तदा तदा चेति चकारात्कालान्तरपरिग्रहः ॥ ४८ ॥ मकरन्दः । आर्या मान्या । माधवः । सकामा मदपकारेण सिद्धप्रतिज्ञेत्यर्थः । कुमुदेत्यादि । कुमुदसमूहेन यदि शरच्चन्द्रचन्द्रिका सौन्दर्यगुणार्थं संगता प्राप्ता तत्सत्कृतं शोभनकरणमस्तु । द्वयोरपि रम्यत्वात् । अयं पुनः कः प्रकारः कुत्सितप्रकारो वा यदकालमेघपङ्क्ति- र्व्ययूयुजद्वियोजयामास । विच्छेदं कृतवतीत्यर्थः । ध्वनिनात्र कुमुदाकरो माधवश्च- न्द्रिका मालती मेघसंततिः कपालकुण्डलेत्युक्तम् ॥४९॥ अतिबीभत्समिति । उद्वेगहेतुकपालकुण्डलादर्शनाद्बीभत्सः । यदाह—'उद्वेजनैश्च बहुभिर्बीभत्सरसः