भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 363, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 363

अङ्कः ९ ] मालतीमाधवटीका । ११५ पृ० पं० २२० १ ॰स्त्वद्यापदो गण० । २ मम० प्रशान्तम् । ९ ॰नु० खलु मा० । साक्षिणा मया भवि० । १० ॰भवत्वमु- ष्माद्विरि० । २२१ ३ ॰दुल्लसितविस्मया बत० । १२ ॰विमलविधानि० । १३ ॰मकरन्दानन्दनमुखचन्द्र मा० । एतेन व्याधिरुक्तः । सर्वतस्तमः प्रसरतीव । अनेन जडता । सकलेन्द्रियाणामप्र- ह्वात् । जडतानन्तरं मरणशङ्कायामाश्वास एष युक्त इत्याह—त्वरिति । खलु निश्चये । यत एवं ततो नेत्रप्रीतिं देहि । स्वं दर्शयेत्यर्थः । मद्विषये निर्दया मा भविष्यसि । यद्वा अकरणा मा भूर्न भव । 'माङि लुङ्' इति कालसामान्ये लुङ् । पूर्वकरणे- दानीमपि निर्वाह्यतामित्यर्थः । इवशब्द उत्प्रेक्षायाम् ॥ ४६ ॥ निरित्यादि । यदा मालत्याः पद्माक्ष्याः कामोन्मादोद्वेगा निर्विघ्ना अत्यर्थं दुःसहा अङ्गदाहदुःख- महान्तस्तद्दुःखोपदेशकाराः संबभूवुः । संभूयोद्गतास्तत्र काले तस्यास्त्वदालिङ्गन- मेव शीघ्रं प्राणरक्षमभूत् । अत एव मदालिङ्गनतुल्यः । उन्माथ उन्मथनमुद्वेग इति यावत् । प्रगुणमिति पाठे प्रकृष्टगुणमित्यर्थः । क्रियाविशेषणं वा । कामदुःखो- द्वेगस्य प्रियसङ्गस्याभावाद्विघ्नत्वम् । मालतीप्रणयित्वात्प्रियसखि इति । दुःसह- त्वमधृतिकरणात् । उद्दाह उद्गतदाहः । व्यसनस्थाने 'व्यथन' इति पाठे व्यथनं पीडा । अधुना मालां विनास्याः कथं जीवनं भविष्यतीति भावः ॥ ४७ ॥ निर्वर्ण्य निरूप्य । आनन्देत्यादि । मम मालत्याश्च कण्ठे तव तानि गतागतानि स्मरामि । स्मरणस्यातिदुःखदत्वात्कष्टम् । तदा तदा तस्मिंस्तस्मिन्काले । तत्र चोरिकाविवाहात्पूर्वं मालतीकण्ठगतेति गतं लवङ्गिकाबुद्ध्या माधवकण्ठमागतेत्याग- तमित्येकम् । चोरिकाविवाहे मालत्या माधवकण्ठनीतातो गतमथ तन्मुखदर्शना- त्त्वत्कण्ठेऽर्पितेत्यागतमिति द्वितीयम् । पुनस्तत्र प्रणयवशान्माधवेन मालत्यै दत्तेति गतमिदानीं तु सौदामिन्या मालतीसकाशादानीय दत्तेति त्रीणि गतागतानि । अत एव बहुवचनम् । कीदृशानि । तद्दशायामन्तरान्तरा हर्षलाभादानन्दमिश्रितका- मतापप्रकाशनानि । दृढानुरागरसयोगिनि । स्नेहस्याकरो येषु तानि । स्नेहं प्रीति- माकुर्वन्ति व्याकुर्वन्तीति स्नेहाकाराणि । 'कृञो हेतु-' इत्यादिना टप्रत्ययः । तदा तदा चेति चकारात्कालान्तरपरिग्रहः ॥ ४८ ॥ मकरन्दः । आर्या मान्या । माधवः । सकामा मदपकारेण सिद्धप्रतिज्ञेत्यर्थः । कुमुदेत्यादि । कुमुदसमूहेन यदि शरच्चन्द्रचन्द्रिका सौन्दर्यगुणार्थं संगता प्राप्ता तत्सत्कृतं शोभनकरणमस्तु । द्वयोरपि रम्यत्वात् । अयं पुनः कः प्रकारः कुत्सितप्रकारो वा यदकालमेघपङ्क्ति- र्व्ययूयुजद्वियोजयामास । विच्छेदं कृतवतीत्यर्थः । ध्वनिनात्र कुमुदाकरो माधवश्च- न्द्रिका मालती मेघसंततिः कपालकुण्डलेत्युक्तम् ॥४९॥ अतिबीभत्समिति । उद्वेगहेतुकपालकुण्डलादर्शनाद्बीभत्सः । यदाह—'उद्वेजनैश्च बहुभिर्बीभत्सरसः