भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 370, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 370

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

१२२ जगद्धरकृता [ अङ्कः १० पृ० प० २४३ १ लवङ्गिका—को वा इमस्सि संपूरिदसव्वप्पआरम- हूसवे ण परिहाससंपुण्णो होइ । ३ ०देवं महा० । ५ ०मत्र रमणीयतरं यद्० । ६ ०श्चिरात्तूर्णं० । ०संब- न्धात्मा मनो० । ८ ०वस्तुवृत्त । ९ ०वचनमार्यायाः । ११ ०संबन्धान्नन्द० । १२ ०नोपग्रहा० ।


मालतीदर्शनेनेति भावः । हे सौहार्दाश्रये, नतेर्विरम । त्वमेव नमस्या यतः ॥२०॥ तदेवाह—वन्द्येत्यादि । त्वमेव संसारस्य नमस्या । एवंविधैर्विलसितैराकाश- क्रमणरूपैर्वा श्लाघनीयसिद्धित्वं यतः । कीदृशैः । बोधिसत्त्वा जीमूतवाहनादयः । तानप्यतिक्रामन्ति तैः । तेषामेकैकजीवनात्त्वया त्वनेकजीवनादतिशय इति भावः । यद्वा बोधिसत्त्वो बुद्धविशेषः । तदतिक्रमवर्तिभिः । अनेकपुण्यकारित्वात् । यस्या- स्तव विजृम्भितं चेष्टितं पूर्वपरिचयेन प्रतिबद्धमङ्कुरितं बीजं कारणं यत्र तत् । तद्भूतप्रचुरफलयुक्तं च भवति । तथा च त्वदुपकरणेन कृतार्थास्मीति भावः । अन्य- दपि कलमाद्यङ्कुररूपं विजृम्भितं पूर्वप्रतिबद्धबीजमुद्भूतप्रचुरफलशालि भवतीति ध्वनिः ॥ २१ ॥ मालती । अत्र समासादिता प्रापिता । केसरावली बकुल- माला सैवाभिज्ञानं प्रत्ययचिह्नं हस्तं यस्याः । तथा संधारिता रक्षिता । मज्जीवनेनेति भावः । दमयन्तिकालवङ्गिके । अत्र लज्येष्ठा कामन्दकी यथास्माकं सुप्रसन्ना तथा । यद्वा त्वमपि भवेत्यर्थः । सौदामिनीज्येष्ठत्वादपि भगवत्या गुरुत्वात्तस्यामत्यादरसूचनम् । यद्वा सौदामिन्या एव भगवतीकनिष्ठत्वेनादर उक्तः । अपीत्यादि । चिन्तामणिरपि चिन्तारूपं परिश्रममपेक्षते । अचिन्ति- तप्रदाने चिन्तामणित्वव्याघातादिति भावः । इदं पुनराश्चर्यं मन्ये यदार्थया सौदामिन्याचिन्तितं कृतमिति । तथा चात्रानुकारोऽपि नेति भावः । अत एवात्यन्ताश्चर्यम् ॥२२॥ सौदामिनी । नन्दने प्रहर्षो मकरन्दमदयन्तिकानु- रूपघटनात् । वरगुणानाह—श्लाघ्यानामिति । यदिह त्वयि जामात- र्यर्थ्यं प्रीतोऽस्मि तेनेयं मदयन्तिका तव प्रीत्यै त्वत्प्रीति कर्तुं भवतः प्रेयसे मित्राय सुहृदे मकरन्दायाथास्माभिरपि दीयते । पूर्वमनुरागेण दत्ता । प्रीतिहेतुमाह- सच्चरितानां गुणिनां च गणनीये स्थिते प्रशस्तवंशे । पाठान्तरे ख्यातवंशे । प्रशस्तं क्षिप्तं व्यसनमशुभं यत्र तत्र । सातिशये प्रत्युत्पन्नमताविति पाठेऽस्मिन्योत्पन्न- बुद्धौ प्रतिभावतीत्यर्थः ॥ २३ ॥ माधवः । कृतार्थता नृपनन्दनाविरोधात् । मालती । आशङ्का विरोधादिविषया । मर्मभेदित्वाच्छल्यम् । लवङ्गिका । अत्र श्रीमाधवस्येति प्राकृते पूर्वनिपातानियमत्वात् । फलिता मनोरथाः । एतयो- रागविशुद्धविवाहादिति भावः । सर्वे इति । भगवति कार्यनिधाने । अत्र जयेति शेषः । लवङ्गिका । अपि तु सर्वोऽपीत्यर्थः । कामन्दकी । अद्भुत- मित्यादिनोपगूहनमाह । यदाह—'अद्भुतस्य तु संप्राप्तिर्भवतादुपगूहनम्' ।