मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 372, कुल 377 में से
संदर्भ में पढ़ेंप्रशस्तिरुक्ता । काव्योपसंहारोऽप्यनेनैव कृतः । यदाह—'वरदानस्य उक्तिर्या सा काव्य उपसंहृतिः ॥' इति ॥ २५ ॥ लब्धं दुर्लभशासनं सुरगणाग्रामश्च कैवर्तिका- द्विद्यावंशविभूषिते अपि प्रभे छत्रे उमे धारिते । येनायं समभूद्विजातिलकश्चण्डेश्वरः पण्डितो मीमांसैकरहस्यवश्यहृदयो दातावदाताशयः ॥ १ ॥ देवेशं समसूत सोऽयममलं मीमांसकं सत्कविं सोऽप्युच्चैरजनिष्ट जैमिनिमते रामेश्वरं सद्बुधम् । सूते स्मायमपि प्रतीपजयिनं मीमांसयालंकृतं शुद्धं धीरगदाधरं कविवरं पुत्रं पवित्राशयम् ॥ २ ॥ विद्याधरं वरमजीजनदेष धीरं हीरं जनेषु जयिनं गुरुणोक्तशास्त्रे । प्रासूत सोऽयममलं गुणिनं सुपुत्रं तं रत्नपूर्वधरमेष जगद्धरं च ॥ ३ ॥ येनापाठि कठोरगौतममणेर्वैशेषिकं खण्डनं येनाश्रावि सकोषकाव्यनिवहं तत्पाणिनीयं मतम् । छन्दोलंकरणं च भव्यभरतं येनाध्यगामि श्रुति- स्तस्यामुष्य जगद्धरस्य कवितुट्टीकेयमुज्जृम्भताम् ॥ ४ ॥ असूत यं रत्नधरोऽतिभव्योऽतिभव्यरूपा दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कः समाप्तिमापद्दशमोऽनवद्यः ॥ इति श्रीमन्महोपाध्यायपण्डितराजमहाकविराजधर्माधिकारि- श्रीरत्नधरपण्डितात्मजश्रीजगद्धरविरचितायां मालती- माधवटीकायां दशमोऽङ्कः ॥