मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 48, कुल 377 में से
संदर्भ में पढ़ें४२ मालतीमाधवे जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदिदं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ३९ ॥ (प्रविश्य ।) मन्दारिका—१कलहंस कलहंस, चोर चोर, पआणुसारेण ल- १. कलहंस कलहंस, चोर चोर, पदानुसारेण लब्धोऽसि कथं तावपि महानुभावावत्रैव प्रणमामि । त्कम्पेनानवरतवेपथुना लोलाश्लथा अङ्गुलयो यस्य स तादृशो वर्तते । तत्किं करोमि । इदानीं चित्रकर्मवैदग्ध्यप्रकटनं दुर्घटमित्यर्थः । स्वेदवेपथू यथा—'वपुर्ज- लोद्गमस्वेदो रतिघर्मश्रमादिभिः । रागरोगभयादिभ्यः कम्पो गात्रस्य वेपथुः ॥' इति ॥ ३८ ॥ तथापीत्यादि स्पष्टम् ॥ जगतीति । जगति भुवने ते ते नवेन्दुक- लादयो भावाः पदार्था जयिनो मन्मथसाहाय्याचरणेन विरहिजनवशीकरणशीलाः। प्रकृतिमधुराः स्वभावेनैव मनोहराः । 'इह वटे यक्षः' इति न्यायेन न केवलमन्धपर- म्परया प्रसिद्धाः । अन्ये मालतीव्यतिरिक्ताः सन्त्येव येऽन्येषामदृष्टमालतीमुखा- म्बुजानामविवेकिनां वा मनो मदयन्त्युत्सुकयन्ति । नैतदपूर्वम् । सन्तु नाम । तैः किमिदानीं तदपेक्षया वराकप्रायैरिति भावः । 'भिन्नरुचिर्हि लोकः' इति न्या- येनान्येषां यथा तथा वास्तु नाम । मम पुनर्विलोचनचन्द्रिका नेत्राह्लादकारिणी । लोके लोकप्रसिद्ध्या केवलमिदमुच्यते, न तु स्वापेक्षया । माधवस्य मालत्यपेक्षया चन्द्रिकादेरतितुच्छत्वेन मालत्यामुत्कर्षप्रतिपादनार्थं चन्द्रिकात्वारोपस्य स्ववचो- व्याहतत्वात् । तेन यथा लोकस्य चन्द्रिका नेत्रयोराह्लादकारिणी एवं मम मालती- त्येतावता चन्द्रिकात्वारोपो न तूत्कर्षप्रतिपादनायेति व्याख्येयम् । एवं च व्याह- तार्थदोष इति तु परिहृतम् । इयं मालती नयनविषयम् । भावप्राधान्येन निर्देशः । नेत्रगोचरतामापन्नेति यत्स एवास्मिञ्जन्मनि लोके कृत्स्नेऽपि प्रपञ्च एकोऽद्वि- तीयो महानुत्सवः सौख्यहेतुः । नान्ये चन्द्रकलादय इत्यर्थः । अतिशयोक्तिरलं- कारः ॥ ३९ ॥ प्रविश्य । मन्दारिकेति । माधवाय प्रदर्श्य शीघ्रं प्रत्यानयेति कलहंसस्य हस्ते चित्रमर्पितवती मदनोद्यानात्प्रतिनिवृत्य क्रीडासौधवर्तिन्यां माल- त्यामथ विशेषदर्शनप्रबलतरोत्कण्ठाविनोदाय क्व चित्रफलकमिति विमृशन्त्यां तदसंनिधानादुपजातसंभ्रमा मन्दारिका जनसंकुले कलहंसमन्विष्य तत्रादृष्टवती प्रविश्य वदतीति भावः । द्विरुक्तिः संभ्रमसूचनार्था । प्लुतश्च 'निगृह्यानुयोगे च' इति विहितो देशभाषास्वपि व्यवह्रियते । चोरेत्यामन्त्रणं मद्धस्ताच्चित्रफलं त्वया चोरे- णानीतमित्युपहासपरम् । अत एवाह—पादानुसारेण लब्धोऽसीति ।