भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 59, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 59

द्वितीयेाऽङ्कः । ५३ लवङ्गिका—(विहस्य सासूयमिव ।) तुमं वि सहावेण एव्व तस्सिं अवसरे असंगीदं णत्तिदासि । मालती—(सलज्जं विहस्य ।) हूँ, तदो तदो । लवङ्गिका—तदो पडिणिउत्तमाणजत्ताजणसंकुलेण अन्तरिदे तस्सिं मन्दारिआघरं उवगदह्नि । ताए चित्तफलं पहादे हत्थी- किदं आसी । मालती—किंणिमित्तं । लवङ्गिका—तं क्खु माहवाणुअरो कलहंसओ कामेदि । सा तस्स दंसइस्सिदित्ति । तदो पिअणिवेदिआ मन्दारिआ संवृत्ता । मालती—(स्वगतम् । सानन्दम् ।) णू्र्णं देण वि कलहंसएण १. त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं नर्तितासि । २. हुं, ततस्ततः । ३. ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्मन्दारिकागृह- मुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतमासीत् । ४. किंनिमित्तम् । ५. तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्य- तीति । ततः प्रियनिवेदिका मन्दारिका संवृत्ता । ६. नूनं तेनापि कलहंसकेनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भवि- ष्यति । सखि, किमिदानीं ते प्रियम् । लवङ्गिका । निश्चित्यापि भावगुप्तये केवलमियं संदिग्ध इति विहस्य निश्चितेऽप्यर्थे ममापि किमाच्छाद्यत इति सासूयम् । आहेति शेषः । सावज्ञमित्यव्ययं प्रणयक्रोधे । त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं स्त्रीगानशून्यम् । 'स्त्रीणां रहोप्रविष्टानां गानं संगीतकं मतम्' इति वचनात् । नर्तितासि । यदि तस्य सहजविलासैस्त्वं वञ्चितासि तर्हि त्वदीया अपि विलासाः स्वाभाविकास्तदुद्दीपिका एव । न त्वनुराग- प्रभवा इति । प्रतिवन्दितः प्रकृतार्थनिर्धारणमेतत् ॥ मालती । इतःपरं गो- पनाशक्तेः सलज्जम् । हुमिति प्रश्ने । ततस्ततः वक्तव्यशेषं ब्रूहीत्यर्थः । लव- ङ्गिका । ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्माधवे मन्दारि- कागृहमुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतं न्यासीकृतमासीत् ॥ मालती । किंनिमित्तम् ॥ लवङ्गिका । तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्यतीति हेतोस्तस्या हस्ते दत्तमासीदित्यर्थः । ततो मन्दारिका प्रियनिवेदिका संवृत्ता ॥ मालती । स्वगतम् । नूनं तेनापि कलहंस-