मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 60, कुल 377 में से
संदर्भ में पढ़ें५४ मालतीमाधवे एदं पडिच्छन्दं अत्तणो पहुणो दंसिदं भविस्सदि । (प्रकाशम् ।) सहि, किं दाणीं दे पिअं । लवङ्गिका—ऐदं क्खु संदाविदस्स तुह संदावआरिणो दुल्ल- हमणोरहावेसदूसहाआसदज्जन्तचित्तस्स खणमेत्तणिवावइत्तं तुह पडिच्छन्दं । (इति चित्रं दर्शयति ।) मालती—(सहर्षोच्छ्वासं चिरं निर्वर्ण्य ।) अह्मो, दाणीं वि हिअ- अस्स मे अणासासो । जेण एदं वि आसासणं विप्पलम्भोत्ति संभावीअदि कहं अक्खराईं पि । ('जगति जयिनः' इत्यादि पठति । सानन्दम् ।) महाभाअ, सरिसं क्खु दे णिम्माणस्स वअणमहुरदाए । दंसणं उण तक्कालमणोहारि परिणामदीहसंदावदारुणं अ । घण्णाओ १. एतत्खलु संतापितस्य तव संतापकारिणो दुर्लभमनोरथावेशदुःसहा- यासदह्यमानचित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छन्दकम् । २. अहो, इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वासनं विप्रलम्भ इति संभाव्यते कथमक्षराण्यपि । महाभाग, सदृशं खलु ते निर्माणस्य वच- नमधुरतया । दर्शनं पुनस्तत्कालमनोहरं परिणामदीर्घसंतापदारुणं च । धन्याः केनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भविष्यतीति । कथमन्धथा मन्दारिका- प्रियनिवेदिका स्यादिति भावः । प्रकाशम् । सखि, किमिदानीं ते प्रियम् । यन्म- न्दारिकाया निवेदितमित्यर्थः । लवङ्गिका । एतत्खलु संतापितस्य त्वदप्राप्त्या संतप्यमानस्य तव संतापकारिणो दुर्लभे लभ्यैव विषये यो मनोरथावेशस्तेन यो दुःसहायासस्तेन दह्यमानस्य चित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छ- न्दकम् । ममेदानीं प्रियमिति शेषः । त्वया यथा तद्दर्शनमन्तरेण जीवितुमपारयन्त्या चित्रदर्शनेनापि प्राणान्धारयितुं प्रतिच्छन्दकं लिखितं तेनाप्येवमेव त्वत्प्रतिकृति- र्लिखितेत्येतदेव मे प्रियम् । अन्योन्यानुरागप्रकर्षस्य प्राप्तिबीजस्य निश्चयादिति भावः । मालती । सहर्षोच्छ्वासम् । समाश्वासः प्रियस्य त्वत्सामत्यन्तानुराग- निश्चयहेतोः । तल्लिखितात्मप्रतरूपस्य दर्शनात् । हर्षाश्वासौ 'मनःप्रसादो हर्षः स्यादिष्टप्राप्तिस्तवादिनिः' इति लक्षणात् । क्वचित् 'सहर्षसाध्वसम्' इति पाठः । तत्र कुमारीजनानुचितपरपुरुषानुरागप्रत्यायकमेतत्कस्य वा बन्धुजनस्य दृष्टिपथं गच्छेदिति साध्वसहेतुः । अहो इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वा- सनं विप्रलम्भ इति संभाव्यते । कथमक्षराण्यपि । दृश्यन्त इति शेषः । जगतीति विवृतं प्राक् । सानन्दमिति । श्लोकार्थानुसंधानमानन्दहेतुः । महाभाग, सदृशं खलु निर्माणस्य वचनमधुरतया । निर्माणे वचने च तुल्यैव मधुरतेत्यर्थः । दर्शनं पु-