भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 7, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 7

अस्य प्रकरणस्य प्रणेतुः श्रीमद्भवभूतिकवेरितिवृत्तं न कापि विस्तरेण लभ्यते । अनेन स्वविरचितमहावीरचरित-मालतीमाधव-उत्तररामचरिताख्यरूपकत्रयस्य प्रस्तावनासु किंचित्स्ववंशादिवर्णनं कृतमस्ति । तद्यथा—आसीद्दक्षिणापथे विद्- र्भेषु पद्मपुरं नाम नगरम् । तत्र केचित्तैत्तिरीयाः काश्यपा उदुम्बरोपाभिधाना ब्रह्मवादिनो द्विजा वसन्ति स्म । तेषां वंशे महाकविर्नाम कश्चिद्वाजपेययाजी विप्रो बभूव । अस्मात्पञ्चमः पुरुषो भवभूतिः । भवभूतेः पिता नीलकण्ठः, जननी जतुकर्णी, पितामहो भट्टगोपालः, गुरुश्च ज्ञाननिधिः । अधीतवानयं तर्कव्याकरण- पूर्वोत्तरमीमांसादीनि शास्त्राणि । अस्य पितृकृतं नाम श्रीकण्ठ इति । ‘तपस्वी कां गतोऽवस्थामिति स्मेराननाविव । गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ ॥’ इति पद्यकरणोत्तरं तस्यैव भवभूतिरिति नामान्तरं जातम् । अनेनैव च नाम्नायं कविर्लोके प्रसिद्धो बभूवेति । कान्यकुब्जाधिपतेर्यशोवर्मणः सभायां भवभूतिरासीदिति राजतरङ्गिणीतो ज्ञायते । यशोवर्मसमयश्च ख्रिस्तवर्षीयसप्तमशतकपूर्वार्धे बभूव । अतो भवभूतेरपि समयो निरुक्तसप्तमशतकमित एवेत्यर्वाचीनपण्डितानामूहः । भवभूतिकृतिषु महावीरचरित-मालतीमाधवउत्तररामचरिताख्यं रूपकत्रयमप- हाय नान्यः कोऽपि प्रबन्धः प्राप्यते । तथापि शार्ङ्गधरपद्धतौ— ‘निरवद्यानि पद्यानि यदि नाट्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥’ इति पद्यम्, गदाधरभट्टसंकलिते रसिकजीवने च— ‘अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् । मृगमदपरिमललहरीं समीर किं पामरेषु रे किरसि ॥’ र. जी. प्र. ३।२२ १ ‘जातुकर्णी’ इत्यपि रूपान्तरम् । २ आर्यासप्तशत्या अनन्तपण्डितकृतटीकायां ‘भवभूतेः संबन्धात्’ इत्याद्यार्या- व्याख्याने द्रष्टव्यम् । वीरराघवविरचितायां महावीरचरितटीकायामप्येवमेवोक्तम् । परंतु तत्र ‘साम्बा पुनातु भवभूतिपवित्रमूर्तिः’ इत्यादि पद्यं निर्मितमिति प्रोक्तम् । ३ मालतीमाधवावतरणिकायां श्रीमद्भिर्डाक्टरभाण्डारकरैरुक्तम् । एतद्विष- यको राजतरङ्गिणीस्थः श्लोकस्त्वयम्— ‘कविवाक्पतिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥’ राज. ४।१४५