भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 8, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 8

२ 'किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥' र. जी. प्र. ३१९५ इति पद्यद्वयं च भवभूतिनाम्ना समुद्धृतं लभ्यते । अतो भवभूतिना विरचितोऽन्यः कोऽपि प्रबन्ध आसीत्, उत तत्कृतानि सुभाषितान्येवैतानि, आहोस्विदेतत्पृथक्क- र्तान्यः कोऽपि भवभूतिर्बभूवेति निश्चेतुं नैव शक्यते । अत्र प्रकाशितयोर्मालतीमाधवटीकयोः प्रथमा भावप्रदीपिकाख्या दाक्षिणात्येन पर्वतनाथतनयत्रिपुरारिसूरिणा विरचिता । इयं सप्तमाङ्कपर्यन्तमेव लब्धा । अव- शिष्टाङ्कत्रयस्य टीका विबुधरत्नावल्याख्या नान्यदेवेन पूरिता । द्वितीया श्रीरत्न- धरात्मजजगद्धरपण्डितविरचिता पाठान्तरैः सह पुस्तकान्ते निवेदिता । एवं टीकाद्वयसंवलितमेतन्मालतीमाधवं प्रकरणं प्रकाशितं चेन्नितरां रसिकजनहृदया- ह्लादकं स्यादिति समालोच्य कृतोऽयं प्रकृतो यत्नः । अत्र च मुद्रणादिष्वनवधा- नतयापतितं दोषजातं क्षन्तव्यं सदयैः सद्द्भिरिति विज्ञापयति विद्वदनुचरो मङ्गेशशर्मा ।