मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 72, कुल 377 में से
संदर्भ में पढ़ें६६ मालतीमाधवे मालती—(जनान्तिकम् ।) १अत्थि मे कोऊहलम् । लवङ्गिका—(प्रकाशम् ।) २को एसो माहवो णाम, जस्सि भअ- वदी एवं सिणेहगुरुअं अत्ताणं धारेदि । कामन्दकी—अप्रस्ताविनी महत्येषा कथा । लवङ्गिका—३तह वि आअक्खिअ भअवदी पसादं करेदु । कामन्दकी—श्रूयताम् । अस्ति विदर्भराजस्यामात्यः समग्रपु- रुषप्रकाण्डचक्रचूडामणिर्देवरातो नाम । यमशेषभुवनमहनीयपुण्यम- हिमानमात्मनः सातीर्थ्योऽपितैव ते जानाति योऽसौ यादृशश्चेति । अपि च । व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसितानां स्थानमूर्जस्वलानाम् । अगणितमहिमानः केतनं मङ्गलानां कथमिव भुवनेऽस्मिंस्तादृशाः संभवन्ति ॥ ९ ॥ १. अस्ति मे कौतूहलम् । २. क एष माधवो नाम; यस्मिन्भगवत्येवं स्नेहगुरुकमात्मानं धारयति । ३. तथाप्याख्याय भगवती प्रसादं करोतु । तिस्थानं कुलं विशुद्धमिति यावज्जानीमः ॥ मालती । जनान्तिकमेव । अस्ति मे कौतूहलम् । अस्मिन्नर्थे तत्पृच्छेत्यर्थः ॥ लवङ्गिका । प्रकाशम् । क एष माधवो नाम, यस्मिन्भगवत्येवं स्नेहगुरुकमात्मानं धारयति ॥ कामन्दकी । अप्रस्ताविनी प्रस्तावानुपयुक्ता । महती बहुवक्तव्यसद्भावाद्दिस्तृता । शीघ्रं मया गन्तव्यम्। तदिदानीमवसराभावादप्रस्तुतत्वाच्च किमनया । शुश्रूषातिशयोत्पादनार्थमनादरो- क्तिः॥ लवङ्गिका । तथाप्याख्याय भगवती प्रसादं करोतु ॥ कामन्दकी-श्रूय- तामिति । समग्रस्य कृत्स्नस्य पुरुषप्रकाण्डचक्रस्य पुरुषश्रेष्ठसमूहस्य चूडामणिश्चूड़ा- रत्नम् । श्रेष्ठ इत्यर्थः। सातीर्थ्य सहाध्ययनम्। 'सतीर्थ्यास्त्वेकगुरवः' इत्यमरः । व्य- तिकरितेति । श्वेतमानैर्धवलीभवद्भैर्यशोभिर्व्यतिकरिता जातव्यतिकरा दिगन्ता येषां ते । व्यतिकरो मिश्रीभावः ऊर्जस्वलानां प्रबलानाम् । राशीभूतानामिति या- वत् । सुकृतविलसितानां भागधेयविजृम्भणानाम् । 'प्रकृतविलसितानाम्' इति पाठे स्वभावोत्कर्षाणां स्थानमास्पदम् । अगणितमहिमानोऽपरिच्छेद्यानुभावा मङ्गलानाम- भ्युदयानां केतनं चिह्नभूता वा यत्र ते तत्र मङ्गलमिति । तादृशा अस्मिन्भुवने कथ- मिव संभवन्ति । न कथंचिदित्यर्थः । व्यतिकरितेति । व्यतिकरो व्याप्तिर्मसृणं वास्य संजातो येभ्यो येषु दिगन्तेषु । चेतयन्ति चेतयमानानि । केतनं चिह्नं मङ्गला- नामभ्युदयानां यन्न तादृशाः पुरुषास्तत्र मङ्गलमित्याशयः । ऊर्जस्वलानां तेजस्विनां शूराणां स्थानमुत्पत्तिः। एतेन सहजशूरो माधव इति भावः । अत एव श्मशाने मा-