मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 74, कुल 377 में से
संदर्भ में पढ़ें६८ मालतीमाधवे यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ ११ ॥ तदत्र च बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते । स एष माधवो नाम । मालती-(सानन्दं जनान्तिकम् ।) सेहि लवङ्गिए, सुदं महाउल- प्पसूदो महाभाओ त्ति । लवङ्गिका-(जनान्तिकम् ।) सेहि, कुदो वा महोअहिं वज्जिअ पारिजाअस्स उग्गमो । कामन्दकी—अहो कालातिपातः । संप्रति हि क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुभगा- मुपात्तोत्कम्पानां विहगमिथुनानां प्रथमतः । १. सखि लवङ्गिके, श्रुतं महाकुलप्रसूतो महाभाग इति । २. सखि, कुतो वा महोदधिं वर्जयित्वा पारिजातस्योद्गमः । न्मादतरलैरकुण्ठितप्रसरैर्लोलैश्च कटाक्षैः पुरमिदं कुवलयितवातायनं संजातकुव- लयगवाक्षमिव भवति । पूर्णचन्द्रदर्शनेन कुवलयोल्लासो हि युक्तः । सकलवनि- तालोचनीयलावण्यस्य तस्याभिलाषवती भवतीत्यहो ते सौभाग्यमिति भावः ॥ ११ ॥ तदत्रेति । लदनुरागाविष्ट एव विद्याभ्यासव्याजेनेहागत्य वर्तत इति भावः । स इति । य एष कथितो देवरातात्मजः स एव माधव इत्यस्मा- भिर्निर्दिष्ट इत्यर्थः । मालती । सखि लवङ्गिके, श्रुतं महाकुलप्रसूतो माधव इति ॥ लवङ्गिका । सखि, कुतो वा महोदधिं वर्जयित्वा पारिजातस्योद्गमः । पारिजातकल्पात्त्वादृशादेव महोदधिकल्पादुत्पत्तिमर्हति, न तु क्षुद्रपल्वलकल्पान्नी- चादित्यर्थः । तदनेन 'निःश्वस्य । कुशलमिव' इत्यादिना 'स एष माधवो नाम' इत्यन्तेन संदर्भेण प्रासङ्गिकनन्दनवृत्तान्तसूचनम्, तद्गुणहीनत्वम्, पितुः स्वकार्यपर- तयापत्यस्नेहराहित्यम्, शकुन्तलावृत्तान्तस्य निषेधमुखेन सूचनम्, तुल्यसंविधानेन माधवसमागमोपायनिवेदनम्, तद्गुणप्रख्यापनेन तत्रानुरागदृढीकरणं चेत्येतावतो- ऽर्थस्य कामन्दक्या तटस्थयैव संविधानचातुर्येण कृतत्वात्पताकास्थानमिदम्। यथा- 'आगन्तुकेन भावेन यदभिव्यक्तिकारकम् । वस्तुनो भाव्यवस्थस्य पताकास्थान- कं तु तत् ॥ अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पता- कास्थानकं तु तत् ॥' इति । अत एव कामन्दकी वक्ष्यत—'अवलोकिते, साधु संप्रति मया तटस्थयैव मालतीं प्रति निसृष्टार्थदूत्यस्य लघूकृतो भारः' इति ॥ कामन्दकी । अहो कालातिपातः । प्रस्तुतकथाव्यासङ्गवशादतिक्रान्तः कालोऽपि न विचारित इत्यर्थः । कालातिपातमेवाह—संप्रति हि । क्षिपन्निति । विहगमिथुनानां