मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 84, कुल 377 में से
संदर्भ में पढ़ें७८ मालतीमाधवे मालती—सैहि, देण इदो वि अवरस्सि अवचिणुह्म । कामन्दकी—(मालतीं परिष्वज्य ।) अयि, विरम विरम । निःसहा जातासि । स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून् । १. सखि तेनेतोऽप्यपरस्मिन्नवचिनुवः । अपरिमेयान्यपरिच्छेद्यान्याश्चर्याणि यत्र तदाचार्यकं कामतन्त्रोपदेशकौशलं भग- वत्याः। यत्प्रसादादिदानीमिहैकाकिनीं कुसुमावचयसंभ्रमसंस्रमानांशुकतया स्फुटं विभाव्यमानसर्वावयवसौन्दर्यशालिनीं प्रियतमां योऽहमन्तर्हित एव निःशङ्कम- वलोकयन्नमृतसरसि निमग्न इव भवामीत्यर्थः । अनेन पूर्वं दृष्टायाः पश्चादन्तरित- दर्शनाया मालत्याः पुनरनुसरणात्परिसर्पो नामाङ्गमुक्तम् । यथा-'परिसर्पस्तु बीजस्य दृष्टनष्टानुसर्पणम्' इति ॥ मालती । सखि, तेनेतोऽप्यपरस्मिन्नवचिनुवः । अन्यस्मिन्प्रदेशे॥अथ कामन्दकी प्रच्छन्नस्थापितमाधवसमीपं मालतीमुपायेनानीय ततोऽन्यत्र जिगमिषन्तीं तां निरुध्य तत्रैव स्थापयितुमाह—कामन्दकी— अयीति । निःसहा पर्यटनासमर्था जाता । कुत इत्यत आह—स्खलय- तीति । हे सुभ्र । सुभ्रूशब्दस्योवङ्स्थानत्वेन नदीसंज्ञाप्रतिषेधादपि 'अम्बार्थन- द्योर्ह्रस्वः' इति ह्रस्वाप्राप्तावपि 'विमानना सुभ्रु कुतः पितुर्गृहे' इत्यादि महाकवि- प्रयोगदर्शनात्साधुत्वं सुभ्रुशब्दस्य ज्ञेयम् । खेदः पुष्पावचयजनितश्रमः । 'मनः- शरीरयोः खेदः क्रियातिशयतः श्रमः' इति वचनात् । त्वयि वल्लभालोक- नेन वल्लभकर्मकेण गाढाभिलाषायाः कामिन्या अवलोकनेन सर्वथा सर्वेणापि प्रकारेण तुल्यं यथा स्यात्तथा विलसति । वल्लभमवलोकयन्त्या येऽनुभावास्ते श्रम- वशात्त्वय्यपि दृश्यन्त इति नर्मगर्भोक्तिः । अथ च लतान्तरितवल्लभकर्तृकालो- कनेन त्वद्गोचरेण तुल्यमेककालतयैकालम्बनतया च सह वर्तत इत्यपि प्रतीतिः । किंच वल्लभकर्तृकावलोकनजनिता एवैतेऽनुभावा न श्रमप्रभावाः, तेन विलोक- यन्तं वल्लभमजानानाया अपि ते तत्कटाक्षसंस्पर्शमात्रेण चन्द्रकान्तस्येव चन्द्रक- रसंपर्कमात्रेणैवंविधो विकार इत्यहो ते गाढानुरागित्वमिति प्रतिपाद्यां मालतीं प्रत्यपह्नवातिशयोक्तिध्वनिः । एवमियं रक्षिजनसहस्ररक्षिताप्युपायेन मयैव पुनर्ब- ल्भालोकनगोचरतां नीता, न तु भवत्येति लवङ्गिकां प्रति ध्वनिः । तदालो- कनमार्गमियमानीता । तद्विश्रम्भमवलोकयेति तटस्थं माधवं प्रत्यस्यास्त्वदनुरागेण त्वया विलोक्यमानायास्तामत्र संनिहितमजानानाया अप्येते विकारा इत्यहो ते युवतिजनहृदयाकर्षणप्रावीण्यमिति तमेव प्रतिव्यज्यत इति बहुधा व्यङ्ग्यस्योद्भा- वयितुं प्रतिश्लोकं प्रतिपदं च शक्यत्वेऽपि विस्तरभयादस्माभिरुपेक्षितम् । कथं तुल्यतेत्यपेक्षायां श्रमप्रियदर्शनयोः कार्यसाम्यमाह—ते वचनं स्खलयति गद्गदं