मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 86, कुल 377 में से
संदर्भ में पढ़ें८० मालतीमाधवे मालती—१अवहिदम्हि । कामन्दकी—अस्ति तावदेकदा प्रसङ्गतः कथैंन्न एव मया मा- धवाभिधानः कुमारः, यस्त्वमिव मामकीयस्य मनसो द्वितीयं बन्धनम् । लवङ्गिका—२सुमरामो । कामन्दकी—स खलु मदनोद्यानयात्रादिवसात्प्रभृति दुर्मनाय- मानः परवानिव शरीरोपतापेन । तथाहि । यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधीरोऽपि विषमम् । प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डु मधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति ॥ ९ ॥ लवङ्गिका—३ऐंदं वि तस्सिं अवसरे भअवदिं तुवराअन्तीए अवलोइदाए उदीरिअं आसि । जह अस्सद्धसरीरो माहवो त्ति । १. अवहितास्मि । २. स्मरामः । ३. एतदपि तस्मिन्नवसरे भगवतीं त्वरयन्त्यावलोकितयोदीरितमासीत् । यथाऽस्वस्थशरीरो माधव इति । मात्रादेवात्रागत्य वर्तत इत्यादि स्फुटम् ॥ मालती । अवहितास्मि ॥ कामन्दकी । प्रसङ्गतोऽस्वस्थशरीरो माधव इत्यवलोकितोक्तिप्रसङ्गात् । मनसो बन्धनम् । बध्नात्यन्यत्र गमनं निरुध्य स्वैकायत्तं करोतीति ॥ बन्धनं विश्रान्तिस्थानम् । प्रेमभाजनमित्यर्थः । लवङ्गिका । स्मरामः ॥ कामन्दकी—स इति । दुर्मनायमानो दुःखितमनस्क इवाचरन् । परवा- निति परवशः । मदनोद्यानयात्रेत्यनेन प्राथमिकान्योन्यदर्शनप्रतीतेश्चक्षुःप्रीति- रुक्ता । दुर्मनायमान इति चित्तासङ्गः । तामुद्दिश्यासौ मदनेन तास्ता दशाः प्रापित इति निवेदयितुमवस्थान्तराण्याह—यदिन्दाविति । इन्दावमृतमय- शरीरे सकललोकाह्लादके प्रणयिनि निरतिशयप्रेमभाजने जने वा यदयमानन्दं निर्वृतिविशेषं न भजते ततोऽयमतिधीरोऽपि धैर्यवानपि विषममतिदुःसहमन्त- स्तापं व्यनक्ति द्योतयति । अरतिसंतापाख्यमवस्थाद्वयमनेनोक्तम् । तथा प्रियङ्गुः फलिनीलता तद्वच्छ्यामाङ्गप्रकृतिः स्वाभाविकी देहकान्तिर्यस्य स तादृशोऽपि चापाण्डु विरहजनितपाण्डिमवत्तथापि मधुरं माधुर्यगुणवत् । 'सर्वावस्थासु चेष्टानां माधुर्यं मृदुकारिता' इति माधुर्यलक्षणम् । क्षामं क्षाममत्यन्तकृशीभूतं वपुर्वहति । न चायं व्याधिनिमित्तः कार्श्यपाण्डुतादिरित्याह—रमणीयः कान्ति- मात्रावशेषेण मनोहराकारश्च भवति । कार्श्य नामावस्थोक्ता । अनुमानविरोधयोः संसृष्टिः ॥ ९ ॥ लवङ्गिका । एतदपि तस्मिन्नवसरे भगवतीं त्वरयन्त्यावलोकि-