मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 87, कुल 377 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ८१ कामन्दकी—यावदहमश्रृणवं मालत्येवास्य मन्मथोन्मादहेतु- रिति । ममापि स एव निश्चयः । कुतः । अनुभवं वदनेन्दुरुपागम- न्नियतमेष यदस्य महात्मनः । क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥ १० ॥ माधवः—अहो उपन्यासशुद्धिः । अहो मम च महत्त्वारोपणे यत्नः । अथवा । शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्व- मेते गुणाः कामदुघाः क्रियासु ॥ ११ ॥ तया निवेदितमासीत् । यथास्वस्थशरीरो माधव इति । कामन्दकी—याव- दिति । मन्मथकृतोन्माद उन्मथनं कर्णाकर्णिकया श्रुत्वाहम्प्येतदेवं निर- णैषम् । अन्यथा तद्धैर्यचलनायोगादिति भावः । अनुभवमिति । एष इति मालतीमुखं चुबुकदेशे गृहीत्वा निर्दिशति । वदनेन्दुरस्य प्रकृतत्वेन बुद्धि- स्थस्य लतान्तरिततया च पुरोवर्तिनो माधवस्यानुभवं समुपागमद्दर्शनविषयतां प्राप्तः । नियतं निश्चितं सर्वथास्यैवंविधविषमदशाविपाकहेतुभूतं तदाननेन्दुदर्शनं जातमिति साध्यते । यतो महात्मनोऽतिगम्भीराशयस्य स्तिमितस्य निस्तरङ्गस्य महोदधेः पय इवोत्कलिकातरलमुत्कण्ठया कल्लोलैश्च तरलं सत्क्षुभितमपहतधैर्य- मुद्वेलं च संजातम् । यथा पयोनिधेः पूर इन्दुदर्शनादेव क्षुभ्यति न तूष्णीमेवं माध- वमनःक्षोभेऽपि त्वन्मुखेन्दुदर्शनमेव निमित्तमिति कार्यकारणमनुमीयत इत्यर्थः । रूपकोपमाभ्यामङ्गाङ्गिभावेन संकीर्णमनुमानमलंकारः ॥ १० ॥ माधवः—अहो इति । उपन्यासस्य प्रतिपादनप्रकारस्य शुद्धिः पूर्वापरविरोधादिदोषराहित्यम् । महत्त्वस्यारोपणे मय्यविद्यमानस्यापि समुद्रसाम्यसंपादनाध्यारोपे यत्नो निबन्धनम्। अथवा नैतादृशानामिदमाश्चर्यम् । कुत इत्यत आह—शास्त्र इति । शास्त्रे प्रतिष्ठा शङ्काकलङ्करहितसम्यग्ज्ञानरूपा परिनिष्ठितिः । सहजः स्वाभाविको बोधोऽनभ्यस्ते- ष्वपि सूक्ष्मप्रमेयरहस्येषु स्वारसिकप्रसरणशालिनी प्रज्ञा । प्रागल्भ्यं प्रौढोक्तिवैचक्ष- ण्यम् । 'निःसाध्वसत्वं प्रागल्भ्यं प्रयोगेष्वपि सर्वतः' इत्युक्तरूपं वा । तथाभ्यस्ताः- प्रयत्नसंपाद्या गुणाः प्रसादमाधुर्यादयो यस्याः सा वाणी । कालानुरोधो वचनावसर- निरीक्षणम् । प्रतिभानवत्त्वं तादात्मिकनवनवोल्लेखशालिप्रतिभावत्त्वमित्येते गुणाः क्रियासु साधयितुमिष्टासु कामदुघा मनोरथपूरकाः । तेनैतद्गुणगरिष्ठतया भगवत्या