मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 88, कुल 377 में से
संदर्भ में पढ़ें८२ मालतीमाधवे कामन्दकी — यतस्तेन जीवितादुद्विजमानेन दुष्करमपि न किं- चिन्न क्रियते । तथा हि । धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भेस्य वायोः । दावप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय- स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥१२॥ मालती — (स्वगतम् ।) ऐवं दुक्करं करेदि सो । कामन्दकी — तदेवं प्रकृत्या सुकुमारः कुमारः कदाचिदप्य- न्यत्रापरिक्लिष्टपूर्वस्तपस्वी । यतः शक्यमनेन मरणमप्यनुभवितुम् । १. एवं दुष्करं करोति सः उपन्यासशुद्ध्यादिकं किमाश्चर्यमित्यर्थः ॥ ११ ॥ कामन्दकी — यत इति । जीवितादुद्विजमानेन लया विना जीवनमशक्यमिति तत्रोद्वेगवता विरहिजनस्य दुष्करमपि न किंचिन्न क्रियत इति । किंतु सर्वमपि जीवितद्वेषिणा तेन क्रियत एवेत्यर्थः । तदेवाह — तथा हि । धत्त इति । मुकुलिनी कोरकिते कोरकाणा- मेव तीक्ष्णाग्रसरसायकत्वेन मन्मथशरधीभूते । रणत्कोकिल इत्यनेन कंदर्पसैन्य- कलकलायमानपिककुलालापवाचालतया यावच्छब्दः श्रूयते तावत्संनिहितप्रदेश- गमनमप्यशक्यं किमुत दर्शनमित्युक्तम् । तस्मिन्बालतया मनोहरे सहकारे वृक्ष- विशेषे दृष्टिविषसर्प इव चक्षुर्धत्ते । भवितव्यं भवत्विति दृष्टिं निपातयतीत्यर्थः । किं च केसरकुसुमपरिमलमिलितस्य वायोश्चन्दनाचलमन्दसमीररणस्य मार्गे समरसमय- समापतन्नाराचधारासंपातसंनिहितशत्राववस्थितप्रदेश इव गात्रं क्षिपति । किम- नेन दुःखानुभवनिर्देयशरीरेणेति सङ्कृतंपरामृश्यत इति । तथा तापप्रशमनार्थं परिजनस्थापितार्द्रकमलिनीपत्रमात्राप्रावरणः । ताम्यन्ती ग्लानिमुपयान्ती मूर्तिर्य- स्यासौ । केनापि शिशिरोपचारेणानिर्वापणीयोऽयं तापस्तदद्य दवदहनज्वालासं- क्लेश एव निर्वापणौषधम् 'उष्णमुष्णेन शाम्यति' इति न्यायादित्येवं झटिति शरीर- त्यागसाधकतमत्वेन तत्कालापेक्षिते दावे प्रेम्णा पक्षपातेन विरहिजनदावानल- ज्वालायामानांश्चन्द्रपादान्मृत्यवे तत्क्षणप्राणनिर्गमनाय श्रयति । तदेवमनपेक्षितजी- वनोऽयमतिदुष्करं कुर्वन्नपि साहसं त्वामेव सकलविषानलादिसंस्तम्भनौषधीमन- वरतमन्तःकरणे धारयन्नमङ्गलशङ्काभाजनं भवतीत्यर्थः । अत्रैक