मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 89, कुल 377 में से
संदर्भ में पढ़ेंमालती—सेहि, अत्तणो कारणादो मच्चलोभालंकारभूदस्स तस्स किं वि आसंकमाणा भूदाविट्ठा विअ ण जाणामि किं पडि- बज्जिदित्ति । माधवः—दिष्ट्या, अनुकम्पितोऽस्मि भगवत्या । लवङ्गिका—भेअवदी एवंवादिणि त्ति आचक्खिअदि । अ- ह्माणं वि भद्दिदारिआ भवणासण्णरज्झामुहमुहुत्तमण्डणस्स तस्स एव्व बहुसो अणुहूद्दंसणा भविअ रविकरासिलिट्ठमुद्धकमलिनीकन्दसु- न्दरावअवसोहाविभाविआणङ्गवेअणावइअररमणिज्जा वि परिअणं दूणेदि । णाहिणन्दइ कलाकीलाओ । केवलं मिलाअन्तक्कन्तहत्थप- ल्लत्थगण्डमण्डला दिअहो गमेइ । अवि अ विअसिदारविन्दमरन्द- १. सखि, आत्मनः कारणान्मर्त्यलोकालंकारभूतस्य तस्य किमप्याशङ्क- माना भूताविष्टेव न जानामि किं प्रतिपत्स्यत इति । २. भगवत्येवंवादिनीत्याख्यायते । अस्माकमपि भर्तृदारिका भवनास- न्नरथ्यामुखमुहूर्तमण्डनस्य तस्यैव बहुशोऽनुभूतदर्शना भूत्वा रविकराश्लि- ष्टमुग्धकमलिनीकन्दसुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि परिजनं दूनयति । नाभिनन्दति कलाक्रीडाः केवलं म्लायमानकान्तहस्तपर्य- स्तगण्डमण्डला दिवसान्नमयति । अपि च विकसितारविन्दमकरन्दविष्यन्द- इति । अनुभूतपूर्वलाद्विकारस्य दुःसहत्वमुक्तं कदाचिदिति । तपस्यनुकम्पनीयः । यद्वा त्वत्समागमायैव महते पुरुषार्थाय त्वद्विरहव्यथानुभवलक्षणं सुदुष्करं तपश्चर- तीति तपस्वी । कुमार इति प्रागकृतदारपरिग्रहत्वं पित्रोः कुशलित्वं च व्यज्यते ॥ मालती । सखि, आत्मनः कारणान्मर्त्यलोकालंकारभूतस्य तस्य किमप्याशङ्कमाना भूताविष्टेव न जानामि किं प्रतिपत्स्यत इति । किमपीति मरणं निर्दिशति । भगवतीव- चनस्य किमुत्तरं देयमित्यहं न जानामि । त्वमेव यथोचितं मदवस्थानिवेदनादिकमु- त्तरं देहीत्याशयः ॥ माधवः—दिष्ट्येति । भाग्यवशादेव मदवस्थां प्रकटयन्त्या भगवत्यानुकम्पितोऽस्मि । यद्वा जनान्तिकमपि लतामात्रान्तरितत्वादन्तिकस्थेन माधवेन श्रुतं वाक्यमिति तद्वचनाकर्णनहर्षवशादियमुक्तिः ॥ लवङ्गिका । भग- वत्येवंवादिनीत्याख्यायते । अस्माकमपि भर्तृदारिका भवनासन्नरथ्यामुखमुहूर्तम- ण्डनस्य तस्यैव बहुशोऽनुभूतदर्शना भूत्वा । चक्षुःप्रीतिरेनेनोक्ता । रविकराश्लिष्ट- मुग्धकमलिनीकन्दसुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि प- रिजनं दूनयति । अङ्गग्लानिः पाण्डिमा च कथितः । नाभिनन्दति कलाक्रीडाः नृत्यगीतादयः कलाः । अरतिरुक्ता । केवलं म्लायमानकान्तहस्तपर्यस्तगण्डम- ण्डला दिवसान्नमयति । चिन्ता सूचिता । अपि च विकसितारविन्दमकरन्दविष्य-