भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 96, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 96

९० मालतीमाधवे टकटायन्तरपत्तकठिणदाढाकरालमुहकन्दरो विअडविअम्भणुद्दाम- दारुणछपेडामोडिअपरिमिलिअणरतुरङ्गजाङ्गलोद्गारभरिअगलगुहाग- ब्भगम्भीरगग्गरो रल्लिगल्लूरणसद्दसंदब्भपरिपूरिजणहोअलो णिहदणि- प्पेसिदणट्ठणिठ्ठामिदासेसजणणिवहो कठोरणहरकप्परदलिआकट्ठज- न्तुगत्तावअवपउत्तरत्तकद्दमिअगइपहो दुट्ठसहूलो कअन्तलीलाइदं क- रेदि । ता पडिरक्खह जसत्ति अत्तणो जीविदं ति । खण्डखण्डनटंकारकटकटायमानकरपत्रकठिनदंष्ट्राकरालमुखकन्दरो विकटवि- जृम्भणोद्दामदारुणचपेटामोटितपरिमिलितनरतुरङ्गजाङ्गलोद्गारभरितगलगुहाग- र्भगम्भीरघर्घरो रल्लिगल्लूरणशब्दसंदर्भपरिपूरितनभस्तलो निहतनिष्पेषितनष्ट- निष्ठापिताशेषजननिवहः कठोरनखरकर्परदलिताकृष्टजन्तुगात्रावयवप्रवृत्तरक्त- कर्दमितगतिपथो दुष्टशार्दूलः कृतान्तलीलायितं करोति । तत्परिरक्षत यथा- शक्त्यात्मनो जीवितमिति । बनारम्भेण भरितौ पूर्णौ दुर्विषहौ यावमर्षरोषावक्षमाक्रोधौ । यद्वा स्थिरक्रोधस्ता- त्कालिकक्रोधौ । यदाहुः—'क्रोधः कृतापराधेषु स्थिरोऽमर्षजनश्रुते । रोषस्तात्का- लिकः कोपः' इति । तयोर्व्यतिकरेण संमेलनेन यो बलात्कारस्तेन पूर्वं विघटितं भजितं पश्चादुद्धाटितमपसारितद्वारबन्धनं यल्लोहपञ्जरं तत्रैव प्रतिलग्नः संसक्तः संगलितः खरचर्षादिगलितो निगलः शृङ्खला यस्य सः । निजः स्वकीयः पञ्जरनिग- लबन्धापगमाच्चिरस्य लब्धो यो लीलया साच्छन्द्येन विलाससञ्चक्रमणरूपो विहार- स्तेनोद्वेल ऊर्ध्वप्रसारितो वल्लभः प्रियतममुन्न उत्नतो यो लाङ्गलो बालदण्डः स एव विकटवैजयन्तिका विकृताकारपताका तया विषमो दुर्दर्शो डामरो भीषण उद्दामः प्रा- चण्ड्यमण्डितः शरीरसंनिवेशो यस्य सः । मठादपक्रम्य तत्क्षणेऽपक्रमण एव सत्वरं यथा स्यात्तथा कवलितानामनेकदेहिदेहानामवयवास्तेषां मध्ये ये निष्ठुराः परुषा अस्थिखण्डास्तेषां खण्डनेन दन्तैर्निपीडनेन जनितो यष्टंकारस्तेन कटकटायमानाः कटकटाइन्दं कुर्वाणा करपत्रवत्ककचवत्कठिना या दंष्ट्रा तया कराळो दन्तुरो मुख- कन्दरो वदनकुहरं यस्य सः । तथा विकटं यद्विजृम्भणं विस्फारणं तेनोद्दामदारुणः प्रचण्डभीषणो यश्चपेटो विस्मृताङ्गुलिः करः । 'पाणौ चपेटप्रतलप्रहस्ता विस्तृता- ङ्गुलौ' इत्यमरः । तेनामोटितं मर्दितम् । 'मुट प्रमर्दने' इति धातोरेतद्रूपम् । परितो मिलितं यन्नरतुरङ्गस्य जाङ्गलं सरक्तं मांसं तस्य य उद्गार आधिक्यादुद्वमनं तेन भ- रिता परिपूर्णा गलगुहा तस्या गर्भे गम्भीरो घर्घरो यस्य । रल्लीति देशी पदं दीर्घम- धुरध्वनिवाचि । दीर्घमधुरो गल्लूरणशब्दो मांसभक्षणसमयकुपितशार्दूलजातिप्रयुक्तं कण्ठगर्जितं तस्य संदर्भों विपुलत्वं तेन परिपूरितं नभस्तलं येन सः । तथा केचि- न्निहताः, केचिन्निष्पेषिताश्चूर्णीकृताः, केचिन्मष्ट अधर्शनं गमिताः, केचिन्निष्ठा- पिता निष्ठां निर्भयस्थानपर्यन्तं गमिता येऽशेषजनास्तेषां निवहो यस्य सः । कचित्