मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 100, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ९७ णेण अज्जसुमदिणा अह्मारिसं परिअणं उज्झिअ गूहं आणीदा एसा । राजा—श्रुतपूर्व्वं मयैतत् । ततस्ततः । द्वितीया—१भट्टा, अदो वरं ण आणीमो । परिव्राजिका—ततः परं मन्दभागिनी कथयिष्यामि । उभे—२अज्जकोसिईए विअ सरसंजोओ । मालविका—३णं सा एव । उभे—४जदिवेसधारिणी अज्जकोसिई दुक्खेण विभावीअदि । भअवदि, वन्दामो । परिव्राजिका—स्वस्ति भवतीभ्याम् । राजा—कथमाप्तवर्गोऽयं भगवत्याः । परिव्राजिका—एवमेतत् । विदूषकः—५तेणं हि कहेदु भअवदी अत्तहोदीए उत्तन्तं असेसं । परिव्राजिका—(सवैक्लव्यम् ।) तावच्छ्रूयताम् । माधवसेनसचिवं ममाग्रजं सुमतिम् अवगच्छ । राजा—उपलक्षितम् । ततस्ततः । परिव्राजिका—स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ- वत्सम्बन्धापेक्षया पथिकसार्थं विदिशागामिनमनुप्रविष्टः । राजा—ततस्ततः । १. भर्तः, अतः परं न जानीमः । २. आर्य्यकौशिक्या इव स्वरसंयोगः । ३. ननु सैव । ४. यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, व- न्दावहे । ५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् । शंगते भर्तृदारके माधवसेने तस्यामात्येनार्य्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढ- मानीतैषा ॥ भर्तः, अतः परं न जानीमः ॥ आर्य्यकौशिक्या इव स्वरसंयोगः ॥ ननु सैव ॥ यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, वन्दावहे ॥ तेन माल० ९