मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 102, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ९९ द्वितीया—अहो खु भट्ठिदारिआए इमं समवस्था संवृत्ता । (परिव्राजिका बाष्पं विसृजति ।) राजा—भगवति, तनुत्यजामीदृशी लोकयात्रा । न शोच्यं तत्र- भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः । परिव्राजिका—ततोऽहं मोहमुपगता यावत्संज्ञां लभे, ताव- दियं दुर्लभदर्शना संप्रवृत्ता । राजा—महत्खलु कृच्छ्रमनुभूतं भगवत्या । परिव्राजिका—ततो भ्रातृशरीरमभिसात्कृत्वा पुनर्नवीभूतवैध- व्यदुःखया मया त्वदीयदेशमवतीर्य इमे काषाये गृहीते । राजा—युक्तः सज्जनस्यैष पन्थाः । ततस्ततः परिव्राजिका—सेयमाटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं गता देवीगृहे लब्धप्रवेशया दृष्टेत्येतदवसानं कथायाः । मालविका—किं² णु खु संपदं भट्ठा भणादि । राजा—अहो परिभवोपहारिणो विनिपाताः । कुतः । प्रेष्यभावेन नामेयं देवीशब्दक्षमा सति । स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते ॥ १२ ॥ देवी—भ³अवदि, तुए अभिअणवदिं मालविअं अणाचक्खन्तिए असंपदं किदम् । परिव्राजिका—शान्तं पापम् । केन च कारणेन मया नैर्घृ- ण्यमवलम्बितम् । १. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता । २. किं नु खलु सांप्रतं भर्ता भणति । ३. भगवति, त्वयाभिजनवतीं मालविकामनाचक्षाणायासांप्रतं कृतम् । काया इयं समवस्था संवृत्ता ॥ किं नु खलु सांप्रतं भर्ता भणति ॥ प्रेष्यभावेने- त्यादि। देवीशब्दक्षमा देवीशब्दयोग्या सतीयं मालविका प्रेष्यभावेन परिचारक- त्वेन उपयुज्यते किल। पत्रोर्णं वा धौतकौशेयमिव। वेत्युपमायाम् । 'उपमायां विकल्पे