मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 12, कुल 111 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ९ गणदासः—भद्रे, । कुतो देव्या तत्पात्रमानीतम् । बकुलावलिका—अत्थि देवीए वण्णावरो भादा वीरसेणो णाम भत्तुणा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे जोग्गा इअं दारिअत्ति भणिअ भइणीए देवीए उवाअणं पेसिदा । गणदासः—(स्वगतम् ।) आकृतिविशेषप्रत्ययादेनामूनवस्तुकां संभावयामि । (प्रकाशम् ।) भद्रे, मयापि यशस्विना भवितव्यम् । यतः । पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥ बकुलावलिका—अह इं । अह कहिं वो सिस्सा । गणदासः—इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यता- मित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति । १. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भर्त्रा नर्मदातीरेऽन्त- पालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता । २. अथ किम् । अथ कुत्र वः शिष्या । नर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्पाधिकारे कलाविद्याधिगम इयं योग्या दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता ॥ अनूनवस्तुकामूनमनल्पं विशिष्टं वस्तु वृत्तं यस्याः सा तथोक्ता तां संभावयामि मन्ये । पात्रविशेष इत्यादि । आधातुरुपदेष्टुः शिल्पं कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं सत् गुणान्तरं गुणविशेषं व्रजति प्राप्नोति। अत्रोपमामाह-पयोदस्य मेघस्य जलं समु- द्रशुक्तौ न्यस्तं सत् मुक्ताफलतां मौक्तिकत्वमिव॥ अथ किम्। अथ कुत्र वः शिष्या॥ इदानीमित्यादि। पञ्चाङ्गाभिनयं पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमित्यर्थः। तस्याभिनयः प्रयोगस्तमिदानीमद्यैवोपदिश्य शिक्षयित्वा। प्रवातं प्रशस्तो वातो यस्मि- न्देशे स तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुक्तं संगीतरत्नाकरे-‘नृत्तं तथा च कैवारो मर्मरो जागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम्॥ त्रिभिस्त्वेवैतत्प्रयोज्यं स्यात्कैवारं जागरं विना ॥’इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं नृत्तं साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानातु मामार्यः ।