मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 13, कुल 111 में से
संदर्भ में पढ़ें१० मालविकाग्निमित्रे बकुलावलिका-तेणं हि पुणो अणुजाणादु मं अज्जो। जाव से अज्जस्स परितोसणिवेयणेण उस्साहं वड्ढेमि। गणदासः-दृश्यतां सखी। अहमपि लब्धक्षणः स्वगृहं गच्छामि। (इति निष्क्रान्तौ।) मिश्रविष्कम्भः। (ततः प्रविशत्येकान्तस्थित परिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा।) राजा-(अनुवाचितलेखममात्यं विलोक्य।) वाह्तव, किं प्रतिप- द्यते वैदर्भः। अमात्यः-देव, आत्मविनाशम्। राजा-संदेशमिदानीं श्रोतुमिच्छामि। अमात्यः-इदमिदानीमनेन प्रतिलिखितम्। पूज्येनाहमादिष्टः। पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसंबन्धो ममोपान्तिकमु- पसर्पन्नन्तरा त्वदीयेनान्तपालेनावस्कन्द्य गृहीतः। स त्वया मदपेक्षया सकलत्रसोदर्यो मोक्तव्य इति। एतन्ननु वो विदितम्। यत्तुल्या- १. तेन हि पुनरनुजानातु मामार्यः। यावदस्या आर्यस्य परितोषनिवे- दनेनोत्साहं वर्धयामि। यावदस्या आर्यस्य परितोषनिवेदनेनोत्साहं वर्धयामि॥ लब्धक्षणो लब्धः प्राप्तः क्षणो निर्व्यापारस्थितिर्विश्रमो येन स तथोक्तः स्वगृहमात्मगृहं गच्छामि॥ मिश्रविष्क- म्भः॥ ततः प्रविशतीत्यादि। वाह्तवेति तस्यामात्यस्य संज्ञा। वैदर्भो विदर्भराजः किं प्रतिपद्यते किं कार्यं मन्यते। संदेशं संदिष्टार्थं श्रोतुमिच्छामि॥ अनेन वैदर्भेणेदं प्रतिलिखितं प्रत्युत्तरत्वेनाभिलिखितम्। पूज्येन पूजार्हेण त्वया अग्निमित्रेणेत्यर्थः। अहं वैदर्भ आदिष्ट आज्ञप्तः। तमेवादेशं विवृणोति-भवत इत्यादिना। भवतस्तव पितृव्यपुत्रः पितृभ्रातृसुतो माधवसेनो नाम प्रतिश्रुतसंबन्धः प्रतिश्रुतोऽङ्गीकृतः संब- न्धः कन्याकप्रदानरूपो येन स तथोक्तो ममोपान्तिकं मत्समीपमुपसर्पन्नुपगच्छन्नाग- च्छन्नन्तरा मध्ये त्वदीयेन त्वत्संबन्धिनान्तपालेन सीमादुर्गरक्षकेणावस्कन्द्य पथिप्र- हृत्य गृहीतो निरुद्धः। बन्दीकृत इत्यर्थः। समाधवसेनस्त्वया भवता मदपेक्षया मय्यपे- क्षा इच्छा। स्नेह इत्यर्थः। तया हेतुना। सकलत्रसोदर्यो भार्याभगिनीसहितः। 'वोपसर्ज- नस्य' इति सहशब्दस्य सादेशः। मोक्तव्यो विसर्जनीयः। इतिः समाप्तौ। एतावता वैदर्भेणाग्निमित्रप्रेषितपत्रिकाथौनुवादः कृत इत्यनुसंधेयम्। इतः परं प्रत्युत्तररूपं वै- दर्भवचनमुच्यते-एतन्ननु वो विदितमित्यादि। एतद्वक्ष्यमाणं वो युष्माकं