मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 14, कुल 111 में से
संदर्भ में पढ़ेंभिजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सो- दर्या पुनरस्य ग्रहणविप्लवे विनष्टा . तदन्वेषणाय प्रयतिष्ये . अ थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम- भिसंधिः । मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् । मोक्ता माधवसेनस्ततो मया बन्धनात्सद्यः ॥ ७ ॥ इति । राजा-(सरोषम् ।) कथं कार्यविनिमयेन मयि व्यवहरत्यात्मज्ञः। वाहृतव, प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितसमुन्मूलनाय वीरसेनमुखं दण्डचक्रमाज्ञापय । अमात्यः-यदाज्ञापयति देवः । राजा-अथवा किं भवान्मन्यते । अमात्यः-शास्त्रदृष्टमाहं देवः । अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसंरोपणशिथिलस्तरुखि सुकरः समुद्धर्तुम् ॥ ८ ॥ राजा-तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव वचनं निमित्त- मुपादाय समुद्योज्यतां सेनाधिपतिः । विदितं नन्वित्यत्र काकुरनुसंधेया । तुल्याभिजनेषु समानवंशेषु । ज्ञातिष्वित्यर्थः । राज्ञां वृत्तिर्वर्तनमीदृशयेवंविधेति यत्तन्नु वो विदितमिति संबन्धः । अतोऽस्मात्का- रणादत्रास्मिन्नर्थे पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । अस्य माधवसेनस्य सोदर्या पुनः स्वसा पुनर्गहणविप्लवे विनष्टा तिरोहिता । तदन्वेषणाय तस्या अन्वे- पणाय गवेषणाय प्रयतिष्ये। अथवेति पक्षान्तरे। मोचयितव्यस्त्याजयितव्यः । अभि- संधिर्निश्चयः। मौर्यसचिवमित्यादि। पूज्यो भवान्संयतं लया निगलितं मम श्यालं पत्नीभ्रातरं मौर्यसचिवं मौर्यसचिवनामानं विमुञ्चति यदि त्यजति चेद् तत- स्तस्मात्कारणान्मया सद्यः सपदि माधवसेनो बन्धनान्निगलान्मोक्ता मुक्तो भविता । मुञ्चतेः कर्मणि लुट् । इतिः लिखितार्थसमाप्तौ ॥ प्रकृत्यमित्रः स्वभावतः शत्रुः। अत्र प्रकृत्यमित्रत्वं च विषयानन्तरत्वादिति मन्तव्यम् ॥ अचिराधिष्ठितेत्यादि । स्पष्टोऽर्थः ॥ तेनारूढमूलत्वेन हेतुना तन्त्रकारवचनमर्थशास्त्रकारवचनमवितथं