भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 15, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 15

१२ मालविकाग्निमित्रे अमात्यः—तथा (इति निष्क्रान्त ) (परिजनो यथाव्यापारं राजानमभितः स्थितः ।) (प्रविश्य ।) विदूषकः—आणत्तोम्हि तत्तभवदा रण्णा । गोदम, चिन्तेहि दाव उवाअं । जहा मे जदिच्छादिट्ठपदिकिदी मालविआ पच्छक्ख- दंसणा होदित्ति । मए अ तत्तहा किदं । दाव से णिवेदेमि । (इति परिक्रामति ।) राजा—(विदूषकं दृष्ट्वा ।) अयमपरः कार्यान्तरसचिवोऽस्मा- नुपस्थितः । विदूषकः—(उपगम्य ।) वड्ढदु भवं । राजा—(सशिरःकम्पम् ।) इत आस्यताम् । (विदूषक उपविष्टः ।) राजा—अपि किंचिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः । विदूषकः—३ पओअसिद्धिं पुच्छ । १. आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय तावदुपायम् । यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च तत्तथा कृतम् । तावदस्मै निवेदयामि । २. वर्धतां भवान् । ३. प्रयोगसिद्धिं पृच्छ । हि सत्यमेव । भविष्यतीति शेषः। हिशब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । इदमेव वैदर्भस्य कार्यविनिमयरूपमेव वचनं वाक्यं निमित्तं हेतुमुपादायावलम्ब्य समुद्योज्यतां प्रत्याचर्य्यताम् ॥ आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय ता- वदुपायम् । यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च तत्तथा कृतम् । तावदस्मै निवेदयामि । अत्र गम्यमानं राज्ञो मालविकादर्शनौ- त्सुक्यमारम्भो नाम प्रथमावस्थेति मन्तव्यम्। अत्र बीजारम्भयोः समन्वयान्मुख- संधिरित्यनुसंधेयम्॥वर्धतां भवान् ॥ उपेयोपायदर्शने उपेयस्य साध्यस्य मालविका- साक्षाद्दर्शनस्योपायदर्शने साधनज्ञाने ते प्रज्ञाचक्षुः प्रतिभादृष्टिः किंचिदीषदपि व्या- पृतं प्रसृतम् । अपिः प्रश्ने । अत्र गम्यमानस्य मालविकारूपस्य बीजस्य विन्यासा- दुपेक्षेपो नाम संध्यङ्गमुक्तं भवति ॥ प्रयोगसिद्धिं पृच्छ॥कर्णे । एवमिव । एतद्वचनं