मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 17, कुल 111 में से
संदर्भ में पढ़ें१४ मालविकाग्निमित्रे राजा—प्रवेशय । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह प्रविष्टः । इत इतो भवन्तौ । गणदासः—(राजानं विलोक्य ।) अहो दुरासदो राजमहिमा । न च न परिचितो न चाप्यरम्य- श्चकितमुपैमि तथापि पार्श्वमस्य । सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥ हरदत्तः—महत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि । द्वारे नियुक्तपुरुषाभिमतप्रवेशः सिंहासनान्तिकचरेण सहोपसर्पन् । तेजोभिरस्य विनिवर्तितदृष्टिपातै- र्वाक्यादृते पुनरिव प्रतिवारितोऽस्मि ॥ १२ ॥ कञ्चुकी—एष देवः । उपसर्पतां भवन्तौ । उभौ—(उपेत्य ) विजयतां देवः । राजा—स्वागतं भवद्भ्याम् (परिजने विलोक्य ।) आसने तावदत्र- भवतोः । (उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ।) राजा—किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप- स्थानम् । गणदासः—देव,श्रूयताम् । तीर्थादभिनयविद्या शिक्षिता। दत्त- प्रयोगश्चास्मि देवेन देव्या च परिगृहीतः । न च न परिचित इत्यादि । अयं राजा परिचितः संस्तुतश्च न भवतीति न, किं तु परिचित एव । अरम्योऽसौम्यश्च न किं तु रम्य एव । तथापि चकितं सभयं यथा भवति तथास्य पार्श्व समीपमुपैमि । शेषं स्पष्टम्॥द्वारे नियुक्तेत्यादि । विनिवर्ति- तदृष्टिपातैर्विनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनःप्रकाशविशेषैस्तु वाक्या- दृते प्रतिषेधवाक्यं विना प्रतिवारित इव निरुद्ध इवास्मि । तीर्थादभिनय विद्ये