मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 19, कुल 111 में से
संदर्भ में पढ़ें१६ मालविकाग्निमित्रे धारिणी—जंइवि एवं राजपरिग्गहो से पहाणत्तणं उवहरइ । परिव्राजिका—अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु भवती । पश्य । अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादर्कः । अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥ विदूषकः—अइ, उअट्ठिदा देवी पीठमद्दिं पण्डिअकोसिइं पुरोकरिअ धारिणी । राजा—पश्याम्येनाम् । यैषा मङ्गलालंकृता भाति कौशिक्या यतिवेषया । त्रयी विग्रहवत्येव सममध्यात्मविद्यया ॥ १४ ॥ परिव्राजिका—(उपेत्य) विजयतां देवः । राजा—भगवति, अभिवादये । १. यद्यप्येवं राजपरिग्रहोऽस्य प्रधानत्वमुपहरति । २. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य धारिणी । त्यादि । अत्र परिव्राजिकायाः स्त्रीत्वात्प्राकृते प्राप्ते संस्कृताश्रयणं लिङ्गित्वादिति मन्तव्यम् । तथा चोक्तम्—'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥ यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वंमुपहरति ॥ अतिमात्रभासुरत्व- मित्यादि। स्पष्टोऽर्थः ॥ अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुर- स्कृत्य धारिणी। पीठमर्दो नाम कामपुरुषार्थसहायो नायकसमीपवर्ती पुरुषःकथ्यते । तथा चोक्तम्—'पीठमर्दः समीपस्थः कार्यालोचनकोविदः'इति। अत्र विदूषकः परि- हासेन परिव्राजिकायां पण्डितकौशिक्यां तद्धर्ममारोपयतीति मन्तव्यम् ॥ मङ्गले- त्यादि । मङ्गलालंकृता मङ्गलं शोभनं यथा भवति तथालंकृता भूषितैषा धारिणी यतिवेषया यतेः परिव्राजकस्य वेष इव वेषः काषायादिधारणं यस्याः सा तथोक्ता तया कौशिक्या समं सार्धं भाति प्रकाशते । अत्रोपमामाह—विग्रहवत्या शरी- रिण्याध्यात्मविद्यया समं त्रयीव वेदत्रयीव। विग्रहवतीव विभक्तिविपरिणामेन योज-