मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 23, कुल 111 में से
संदर्भ में पढ़ें२० मालविकाग्निमित्रे देवी—अंइरोवणीदाए सिस्साए उण पडिट्ठिदस्स उवदेसस्स अण्णाय्यं पआसणं । गणदासः—अत एव मे निर्बन्धः । देवीः—तेणं हि दुवेवि उवदेसं भववदीए दंसेध । परिव्राजिका—देवि, नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण- याभ्युपगमो दोषाय । देवी—(जनान्तिकम् ।) मूढे परिव्वाजिए, मं जाग्गंतिंपि सुत्तं विअ करेसि । (इति सासूयं परावर्तते ।) (राजा देवीं परिव्राजिकायै दर्शयति ।) परिव्राजिका— अनिमित्तमिन्दुवदने किमत्र भवतः पराङ्मुखी भवसि । प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ १८ ॥ विदूषकः—णं सकारणं एव । अत्तणो पक्खो रक्खिदव्वो । (गणदासं विलोक्य) दिट्ठिआ कोववाजेण देवीए परित्तादो भवं । सुसिक्खिदो वि सव्वो उवदेसेण णिण्हादो होदि । गणदासः—देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम् १. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यान्याय्यं प्रका- शनम् । २. तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् । ३. मूढे परिव्राजिके, मां जाग्रतीमपि सुप्तामिव करोषि । ४. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । देशस्यान्याय्यं प्रकाशनम् । तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् ॥ मूढे परिव्रा- जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमित्यादि स्पष्टोऽर्थः ॥ ननु सकारणमेव आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भ- वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । अत्र देवीकोपेन वस्तुवि- च्छेदे प्राप्ते विदूषककृत