मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 25, कुल 111 में से
संदर्भ में पढ़ें२२ मालविकाग्निमित्रे हरदत्तः—तथा। (इत्युत्तिष्ठति।) (गणदासो धारिणीमवलोकयति।) देवी—(गणदासं विलोक्य।) विअंई होहि। (आचार्यौ प्रस्थितौ) परिव्राजिका—इतस्तावत्। आचार्यौ—(परिवृत्य।) इमौ स्वः। परिव्राजिका—निर्णयाधिकारे ब्रवीमि। सर्वाङ्गसौष्ठवाभिव्य- क्तये विगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु। उभौ—नेदमावयोरुपदेश्यम्। (इति निष्क्रान्तौ।) देवी—(राजानमवलोक्य।) जंइ राअकज्जेसु ईरिसी उवाअणि- उणदा अजउत्तस्स, तदो सोहं भवे। राजा— अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्। प्रायः समानविद्याः परस्परयशःपुरोभागाः॥ ३० ॥ (नेपथ्ये मृदङ्गध्वनिः। सर्वे कर्णं ददति।) परिव्राजिका—हन्त। प्रवृत्तं संगीतम्। तथा ह्येषा जीमूतस्तनितविशङ्किभिर्मयूरैरुद्ग्रीवैरनुरसितस्य पुष्करस्य। निर्ह्रादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ॥२१॥ १. विजयी भव। २. यदि राजकार्येष्वीदृश्युपायनिपुणतार्यपुत्रस्य, ततः शोभनं भवेत्। एव न उत्थापयिष्यति॥ विजयी भव॥ सर्वाङ्गेत्यादि। अत्र गुणवत्त्वस्य गम्य- मानत्वादिलोचनं नाम संध्यङ्गमुक्तं भवति॥ यदि राजकार्येष्वीदृश्युपायनिपुणतार्य- पुत्रस्य, ततः शोभनं भवेत्। अत्र गूढार्थोद्भेदनादुद्भेदो नाम संध्यङ्गमुक्तं भवति॥ अलमन्यथा गृहीत्वेत्यादि। स्पष्टोऽर्थः॥ जीमूतस्तनितेत्यादि। जीमूत- स्तनितविशङ्किभिर्जीमूतस्य स्तनितं गर्जितं विशङ्कन्त इति तथोक्तास्तैरुद्ग्रीवैरुकण्ठै- र्मयूरैः शिखण्डिभिरनुरसितस्यानुध्वनितस्य पुष्करस्य वाद्यभाण्डमुखस्य मायूरी मयूरप्रिया मार्जना मनांसि मदयति हर्षयति। कीदृशी मार्जना। उपहितमध्य- मस्वरोत्था उपहितो योजितो मध्यमस्वरो मध्यमसंज्ञकस्वरस्तस्मादुत्तिष्ठत्युदेतीति तथोक्ता मार्जना नाम ।