मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 30, कुल 111 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । २७ विदूषकः-(जनान्तिकम्।) भो, चउप्पदवत्थुअं दुवारीकरिअ तुइ उवठ्ठाविदो अप्पा तत्तहोदीए । राजा-सखे, एवमेव ममापि हृदयम् । अनया खलु जनमिममनुरक्तं विद्धि नाथेति गेये वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् । प्रणयगतिमदृष्ट्वा धारिणीसंनिकर्षा- दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥ (मालविका गीतान्ते निष्क्रमितुमारब्धा ।) १. भोः, चतुष्पदवस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या । यथोक्तम्-'अप्राप्तिर्विप्रलम्भः स्याद्यूनोर्जाताभिलाषयोः । विप्रलम्भस्य भेदाः स्युरयोगो विरहस्ततः ॥ प्रवासः शापः करुणा मानश्चेति च षण्मताः॥' तत्र । 'संप्राप्ते पागसङ्गे यस्तमयोगं प्रचक्षते' इति । अत्र चतुष्पद्याः पादचतुष्टये क्रमेण निर्वेदः सविस्मयो हर्षश्चिन्ता दैन्यं चेति संचारिभावास्तत्तदनुभावैर्मुखरागादिभिः सम्य- क्प्रकाशिता इत्यनुसंधेयम् । तेषां लक्षणमुक्तं वसन्तराजीये-'इष्टार्थविरहव्याधि- निन्दासदनमानसैः । दारिद्र्यसंताननाशपरवृद्ध्यवलोकनैः । निष्फलत्वमतिर्नॄणां निर्वेदो जीवितादिषु ॥' अत्रेष्टार्थविरहजनितो निर्वेदः । 'अन्तर्बाष्पोपमध्यानानिः- श्वासस्यावमाननैः । दैन्यगद्गदवैवर्ण्यैरभिनेयो भवेदयम् ॥ हर्षो मनःसमुल्लासो गुरुदेवमहीभुजाम् । प्रसादात्प्रिय सङ्गाच्च भवेदिष्टार्थलाभतः ॥' अत्रेष्टार्थलाभज- नितो हर्षः । अपाङ्गस्फुरणस्नेष्टाथलाभहेतुत्वात् । 'मुखे नेत्रे प्रसन्नत्वात्प्रियोक्ति- पुलकोद्गमः । दानत्यागपरीरम्भैरभिनेयो भवेदयम् ॥ इष्टालाभादिष्टनाशादनि- ष्टाप्तेश्च दैन्यतः । चित्तस्यैकाग्रता चिन्ता' । अत्र चिन्तेष्टाल भजनिता । 'स्मरणं चानुपस्मृतिः॥ संतापोच्छ्वासनिश्वासा मान्द्यमिन्द्रियकर्मणाम् । अधोमुखत्वमित्याद्यै- रभिनेयो भवेदयम् ॥ अनौजस्त्वं तु मनसो दैन्यमित्यभिधीयते । मनःसंतापदारिद्र्य- चिन्तौत्सुक्यादिभिर्भवेत्॥' अत्रौत्सुक्यजनितं दैन्यम् । 'अङ्गानामपि शैथिल्यं देहसं- स्कारवर्जनम्। अधितं भरतेऽस्मिन्वै अनुभावाः प्रदर्शिताः॥' इति ॥ भोः, चतुष्पद- वस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ॥ जनमिममित्यादि । नाथ स्वामिन्, इमं जनम् । मामित्यर्थः । अनुरक्तं स्निग्धम् । त्वयीति शेषः । विद्धि जा- नीहि । इत्येवंविधे गेये गीते । वचनं 'णाह मं पराहीणं' इत्यादिवाक्यं स्वाङ्गनिर्देश- पूर्वमात्मशरीरप्रदर्शनपूर्वं यथा भवति तथाभिनयन्त्या हस्तादिभिः प्रकाशीकुर्वत्या। अनया मालविकया धारिणीसंनिकर्षाद्विहितां प्रणयगतिं मम स्नेहप्रवृत्तिमदृष्ट्वा- ज्ञात्वा । अनुभावानामप्रकाशनादिति भावः । सुकुमारप्रार्थनाव्याजं सुकुमारा मृ-