मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 31, कुल 111 में से
संदर्भ में पढ़ें२८ मालविकाग्निमित्रे विदूषकः—भोदि१, चिट्ठ किंचि । वो विसुमरिदो कम्म- भेदो । तं दाव पुच्छिस्सम् । गणदासः—भद्रे, उपदेशविशुद्धा यातुमर्हसि । (मालविका निवृत्य स्थिता ।) राजा—(आत्मगतम् ।) अहो, सर्वास्ववस्थासु चारुता शोभान्तरं पुष्यति । तथा हि । वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् । पादाङ्गुष्ठाल्लुलितकुसुमे कुट्टिमे पातिताक्षं नृत्तादस्याः स्थितमतिंतरां कान्तमृज्वायतार्थम् ॥ ६ ॥ देवी—२णं गोदसवअणं वि अज्जो हिअए करेदि । गणदासः—देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद- र्शिता गौतमस्य । मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ७ ॥ १. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि । २. ननु गौतमवचनमप्यार्यो हृदये करोति । डुलारसनीयेत्यर्थः। सा चासौ प्रार्थना सैव व्याजोपदेशो यस्मिन्कर्मणि तत्तथो- क्तम् । अङ्गुक्त इवोदित इव ॥ भवति, तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म- भेदः । तं तावत्प्रक्ष्यामि ॥ वाममित्यादि । संधिस्तिमितवलयं संधौ मणिबन्धे स्तिमितं निश्चलं वलयं कङ्कणं यस्य स तथोक्तः । तं वामं सव्यं हस्तं नितम्बे न्यस्य निधाय । श्यामाविटपसदृशं फलिनीशाखासंनिभं द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं स्रस्तं शिथिलं यथा भवति तथा मुक्तं विसृष्टम् । लम्बितमित्यर्थः । कृत्वा विधाय । पादाङ्गुष्ठाल्लुलितकुसुमे पादाङ्गुष्ठेनाल्लुलितमामृष्टं कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे । स्फटिकादिखचितस्थले पातिते व्यापारिते अक्षिणी यस्मिन्कर्मणि तथोक्तम् । ऋज्वायतार्थम् ऋजु अवक्रम्रायतं दीर्घं अर्धं शरीरस्योर्ध्वभागो यस्य तत्तथोक्तम् । अस्याः स्थितमवस्थानं नृत्तात्तर्त्तनादतिंतरामत्यर्थं कान्तं मनोहरं भवति । अत्र वाक्यस्य विशेषितलात्पुष्पं नाम संध्यङ्गमनुक्तं भवति ॥ ननु गौतमवचनमप्यार्यो हृदये करोति ॥ मन्दो संशोध्यैः । अस्य वाक्यस्योपप