मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 37, कुल 111 में से
संदर्भ में पढ़ें३४ मालविकाग्निमित्रे विहंगो आमिसलोलुओ भीरुओ अ। ता अणादुरो भविअ कज्जसिद्धिं पत्थेन्तो मे रोअसि। राजा-कथमनातुरो भविष्यामि। सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य। सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे।) इति द्वितीयोऽङ्कः। ――――― तत्रभवती। भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे। अत्र सान्त्वनस्य गम्य- मानत्वात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति ॥ सर्वान्तःपुरेत्यादि। यत्स्नेहस्य प्रेम्ण एकायनीभूता। एकं केवलमयनं स्थानम्। आश्रय इत्यर्थः। तद्भूता। अत्राङ्के मालविकाया निष्क्रमणेन कथाविच्छेदे सति सर्वान्तःपुरेत्यादिना गम्य- मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्र- व्याख्याने द्वितीयोऽङ्कः ॥