मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 36, कुल 111 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । ३३ देवी—१णिब्बट्टेदु अज्जउत्तो मज्जणविहिम् । विदूषकः—२भोदि, विसेसेण पाणभोअणं तुवरावेहि । परिव्राजिका—(उत्थाय ।) स्वस्ति भवते (इति सपरिजनया देव्या सह निष्क्रान्ता ।) विदूषकः—भो³ वअस्स, ण केवलं रूवे, सिप्पेवि अहुदीआ मालविआ । राजा—वयस्य, अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता । परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ १३ ॥ किं बहुना । सखे, चितयन्तव्योऽसि । विदूषकः—४भवदावि अहं । दिढं विपणिकन्दु विअ मे उअ- रब्भन्तरं दज्जइ । राजा—एवमेव भवान्सुहृदर्थेऽपि त्वरताम् । विदूषक—५गहीदो खणो । किं तु मेहावलीणिरुद्धा जोण्हा विअ पराहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो विअ १. निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् । २. भवति, विशेषेण पानभोजनं त्वरय । ३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका । ४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । ५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना तत्र- भवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च । तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ॥ भवति, विशेषेण पानभोजनं त्वरय ॥ भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ॥ अव्याजसुन्दरीमि- त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन ॥ भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुनीम पण्यवीथिकायां पिष्टपचनपात्रम् । 'कन्दुनी स्वेदनी स्त्रियाम्' इत्यमरः ॥ एवमेवेत्यादि । एवमेवेत्थमेव । यथा भवान्भोजनरूपे स्वकार्ये त्वरते तथा सुहृदर्थे मदर्थे माल- विका पुनर्दर्शने त्वरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग- मुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना