मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 35, कुल 111 में से
संदर्भ में पढ़ें३२ मालविकाग्निमित्रे विदूषकः—(जनान्तिकम् ।) दलिद्दो विअ आदुरो वेज्जेण ओ- सदं दीअमाणं इच्छसि । (प्रविश्य ।) हरदत्तः—देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां प्रसादः । राजा—(आत्मगतम् ।) अवसितो दर्शनार्थः । (दाक्षिण्यमवलम्ब्य प्रकाशम् ।) ननु पर्युत्सुका एव वयम् । हरदत्तः—अनुगृहीतोऽस्मि । (नेपथ्ये ।) वैतालिकः—जयतु जयतु देवः । उपारूढो मध्याह्नः । तथा हि । पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां सौधान्यत्यर्थतापाद्गलभिपारचयद्वेषिपारावतानि । बिन्दुक्षेपान्पिपासुः परिसराति शिखी भ्रान्तिमद्वारियन्त्रं सर्वैरुक्तैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ १२ ॥ विदूषकः—अविहा अविहा । अह्माणं उण भोअणवेला उव- द्विदा । उद्दवेलादिक्कमे चिहृच्छुआ दोसं उदाहरन्ति । (हरदत्तं विलोक्य ।) किं दाणिं भणसि । हरदत्तः—नास्ति वचनस्यान्यस्यावकाशोऽत्र । राजा—तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । विश्राम्यतु भवान् । हरदत्तः—यदाज्ञापयति देवः । (इति निष्क्रान्तः ।) १. दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि । २. अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि । ध्रुतं नाम संध्यङ्गमुक्तं भवति ॥ दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ॥ पत्रच्छायायेत्यादि । स्पष्टोऽर्थः ॥ अविध अविध । अस्माकं पुनर्भोजनवेलोप- स्थिता । चिकित्सका किमिदानीं भणसि