मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 41, कुल 111 में से
संदर्भ में पढ़ें३८ मालविकाग्निमित्रे राजा—ततः किमुक्तवती। विदूषकः—विण्णावेहि। अणुगहीदह्नि इमिणा णिओएण। किंतु सा तवस्सिणी देवीए अहिअं रक्खन्तीए णाअरक्खिदो विअ णिही ण सुहं समासादइदव्वा। तहवि घटइस्सं ति। राजा—भगवन् संकल्पयोने, प्रतिबन्धवत्सु चापि विषयेष्वभि- निवेशकारी किं तथा प्रहरसि यथा जनोऽयं न कालान्तरक्षमो भवति। (सविस्मयम्।) क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्। मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ २ ॥ विदूषकः—^२णं भणामि तस्सि साहणिज्जे किदो उवक्खेवो। पज्जवत्थावेदु भवं अप्पाणं। राजा—अथेमं दिवसशेषमुचितव्यापारविमुखेन चेतसा क्वनु खलु यापयामि। १. विज्ञापय। अनुगृहीतास्म्यनेन नियोगेन। किंतु सा तपस्विनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या। तथापि घटयिष्यामीति। २. ननु भणामि तस्मिन्साधनीये कृतः उपक्षेपः। पर्यवस्थापयतु भवा- नात्मानम्। प्रसक्ते प्रस्तुते सति किं किमर्थं परितापं संतापं व्रजसि प्राप्नोषि॥ अलं भवतो धीर तासुज्झित्वा परिदेवितेन। दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुला- वलिका। श्रावितोऽयमर्थो यो भवता संदिष्टः॥ विज्ञापय। अनुगृहीतास्म्यनेन नियोगेन। किंतु सा तपस्विनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या। तथापि घटयिष्यामिति। अत्र तपस्विनीति करुणापात्रमुच्यते। 'तपस्वी करुणापात्रम्' इति हलायुधः। अत्र प्राप्तिसंभावनया प्राप्त्याशा नाम तृ- तीयावस्था सूचिता। अनया प्राप्त्याशया बिन्दोःसमन्वयाद्गर्भसंधिरिति मन्तव्यम्॥ क रुजेत्यादि स्पष्टोऽर्थं ॥ ननु भणामि तस्मिन्साधनीये कृत उपक्षेप पर्य