मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 42, कुल 111 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ३९ विदूषकः-अज्ज एव पुढमावदारसुहआणि रक्तकुरबआणि उवाअणं पेसिअ णववसन्तावदारखवदेसेण इरावदीए णिउणिआमु- हेण पत्थिदो भवं । इच्छामि अज्जउत्तेण सह दोलाहिरोहणं अणुह- विदुं ति । भवदावि से पडिण्णादं । ता पमदवणं एव गच्छह्म । राजा—न क्षममिदम् । विदूषकः-कहं विअ । राजा—वयस्य, निसर्गनिपुणाः स्त्रियः । कथमन्यसंक्रान्तहृदय- मुपलालयन्तमपि ते सखी न मां लक्षयिष्यति । अतः पश्यामि । उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः । उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ३ ॥ १. अद्यैव प्रथमावतारसुभगानि रक्तकुरबकान्युपायनं प्रेष्य नववसन्ता- वतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् । इच्छाम्यार्यपु- त्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमद- वनमेव गच्छावः । २. कथमिव । वस्थापयतु भवानात्मानम् । अत्र 'कृत उपक्षेपः' इत्यनेन कपटोपायकल्पनाया गम्य- मानत्वेनाभूताहरणं नाम संध्यङ्गमुक्तं भवति ॥ अद्यैव प्रथमावतारसुभगानि रक्त- कुरबकान्युपायनं प्रेष्य नववसन्तावतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञा- तम् । तस्मात्प्रमदवनमेव गच्छावः ॥ कथमिव ॥ उचित इति । प्रणय इरावत्याः प्रार्थना विहन्तुं प्रतिषेद्धुमुचितोऽर्हो वरं मनाक्प्रियम् । अयं पक्षः किंचित्साधुरि- त्यर्थः । हि यस्मात्कारणात्खण्डनहेतव ईर्ष्याकोपकारणानि बहवोऽनेके दृष्टा मया लक्षिताः । खण्डनहेतुदर्शनेऽप्युपचारविशेषैः प्रलोभ्यतामित्यत आह—उपचा- रेति । भावशून्यः प्रेमरहितं उपचारविधिरिष्टाचरणं पूर्वाभ्यधिकोऽपि पूर्वस्मादुप- चारविधेरतिशयितो मनस्विनीनां तु प्रशस्तमनसां पुनः । विवेकवतीनामित्यर्थः । उपचारविधिर्न भवति । किंत्वपचारविधिरित्यर्थः । अत्र नञर्थस्तद्विरोधः ॥