मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 43, कुल 111 में से
संदर्भ में पढ़ें४० मालविकाग्निमित्रे विदूषकः— १णरिहदि भवं अन्तेउरपइड्ठिदं दक्खिण्णं एक्क पदे पिट्ठदो कादुम् । राजा—(विचिन्त्य ।) तेन हि प्रमदवनमार्गमादेशय । विदूषकः— २इदो इदो भवं । ( उभौ परिक्रामतः ।) विदूषकः— ३एदं पमदवणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव- रेदि विअ भवन्तं पवेसिदुं । राजा—(स्पर्शसुखं रूपयित्वा ।) अभिजातः खलु वसन्तः । सखे, पश्य । आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥ विदूषकः— ४पविस णिव्वुदि लाहाअ । ( उभौ प्रविशतः ।) विदूषकः— ५अवहाणेण दिट्ठिं देहि । एदं खु भवन्तं विअ वि- १. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् । २. इत इतो भवान् । ३. एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरयतीव भवन्तं प्रवेष्टुम् । ४. प्रविश निर्वृतिलाभाय । ५. अवधानेन दृष्टिं देहि । एतत्खलु भवन्तमित्र विलोभयितुकामया मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् । नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान् ॥ एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरयतीव भवन्तं प्रवेष्टुम् ॥ आम- त्तानामित्यादि। स्पष्टोऽर्थः ॥ प्रविश निर्वृतिलाभाय ॥ अवधानेन दृष्टिं देहि। एत- त्खलु T वसन्तकु