भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 44, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 44

तृतीयोऽङ्कः। ४१ लोहइदुकामाए महुलच्छीए जुवइवेसलज्जापइत्तं वसन्तकुसुमणे- वत्थं गहीदं । राजा—(विस्मयात् ।) एतदवलोकयामि । रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् । आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ ५ ॥ (उभौ नाट्येनोद्यानशोभां निर्वर्णयतः ।) (ततः प्रविशति पर्युत्सुका मालविका ।) मालविका—अविण्णादहिअअं भट्‍टारं अहिलसन्ती अप्पणो १. अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावल्लज्जामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुकां वेदनां कियन्तं कालं मदनो मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि । आदिष्टास्मि देव्या । गौतमचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमभिलाषपूरयितृकं प्रसादं दास्यामीति । यावन्नियो- गभूमिं प्रथमं गता भवामि, तावदनुपदं मम चरणालंकारहस्तया बकुलावलि- कयागन्तव्यम्, परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम् । सुमनेपथ्यं गृहीतम् ॥ रक्ताशोकेत्यादि । बिम्बाधरे । बिम्बमिवाधरस्तस्मिन् । ‘विशेषणं विशेष्येण बहुलम्' इति विशेषणसमासः । ‘उपमितं व्याघ्रादिभिः सामान्या- प्रयोगे’ इत्युपमितसमासस्तु कविमित्रैत्र ग्राम्ये(प्राये)ण नाङ्गीकृतः। अलक्तको लाक्षा । रक्ताशोकरुचा रक्ताशोककुसुमस्य रुचा कान्त्या विशेषितगुणः। विशेषितोऽतिशयित- स्तिरस्कृतो गुणो रागो यस्य स तथोक्तः। श्यामावदातारुणम्। श्यामं च तदवदातमरुणं च तत्तथोक्तम् । ‘वर्णी वर्णेन’ इति कर्मधारयः। कुरबकं कुरबकपुष्पं प्रत्याख्यातविशे- षकम् । प्रत्याख्यातं तिरस्कृतं विशेषकं पत्रभङ्गो येन तथोक्तम् । लग्नद्विरेफाञ्जनै- र्लग्नः सक्तो द्विरेफो भ्रमर एवाञ्जनं येषु तैस्तिलकैस्तिलककुसुमैस्तिलकक्रियापि तिलकस्य ललाटिकायाः क्रियाक्रान्तोल्लङ्घिता । परिभूतेत्यर्थः। माधवी मधुसंबन्धिनी श्रीर्लक्ष्मीः ! शोभेत्यर्थः । योषितां स्त्रीणां मुखप्रसाधनविधौ मुखालंकारकरणे सावज्ञेवावमानेन सहितेव । अवमाननां कृतवतीवेत्यर्थः ॥ अविज्ञातहृदयं भर्ता-

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 44, कुल 111 में से · BharatKosha