मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 45, कुल 111 में से
संदर्भ में पढ़ें४२ मालविकाग्निमित्रे वि दाव लज्जेमि । कुदो विहवो सिणिद्धस्स सहीजणस्स इमं वृत्तन्तं आचक्खिदुं । ण जाणे अप्पडिआरगरुअं वेअणां केत्तिअं कालं मअणो मं णइस्सदित्ति । (इति कतिचित्पदानि गत्वा ।) आ, कहिं खु पत्थिदम्हि । (इति स्मृतिमभिनीय ।) आदिद्वम्हि देवीए । गोद मचावलादो दोलापरिब्भट्ठाए सरुजो मह चलणो । तुमं दाव गदुअ तवणीआसो- अस्स दोहलं णिवट्टेहित्ति । यदि सो पञ्चरत्तब्भन्तरे कुसुमं दंसेदि, तदो अहं अहिलाषपूरइत्तअं पसादं दाइस्सं ति । जाव णिओअभूमिं पुढमं गदा होमि, ताव अणुपदं मम चलणालंकारहत्थाए बउलावलिआए आअन्तव्वं, परिदेवइस्सं ताव वीसद्धं मुहुत्तअं । (इति परिक्रामति ।) विदूषकः—(दृष्ट्वा ।) वैअस्स, एदं खु सीहुपाणुब्बेजिदस्स मच्छण्डिआ उवणदा । राजा—अयि, किमेतत् । विदूषकः—ऐसा णादिपरिआरवेसा ऊसुअवअणा एआइणी मालविआ अदूरे वहदि । राजा—(सहर्षम् ।) कथं मालविका । विदूषकः—अह इं । १. वयस्य, एतत्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता । २. एषा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाऽदूरे वर्तते । ३. अथ किम् । रममिलषन्त्यात्मनोऽपि तावलज्जामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतीकारगुरुकां वेदनां कियन्तं कालं मदनो मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि । 'आ स्मृतौ' । आदिष्टास्मि देव्या । गौतम- मचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमभिलाष- पूरयितृकं प्रसादं दास्यामीति । यावन्नियोगभूमिं प्रथमं गता भवामि । 'यावत्पु- रानिपातयोर्लट्' इति भविष्यदर्थे लट् । तावदनुपदं मम चरणांलंकारहस्तया बकुलावलिकयागन्तव्यम्। परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम् ॥ वयस्य, एत- त्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ॥ मत्स्यण्डिका नाम शर्कराविशेषः ॥ एषा मालविकाऽदूरे वर्तते ॥ अथ किम् ॥