मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 46, कुल 111 में से
संदर्भ में पढ़ेंतृतीयाऽङ्कः । ५३ राजा—शक्यमिदानीं जीवितमवलम्बितुम् । त्वदुपलभ्य समीपगतां प्रियां हृदयमुच्छ्वसितं मम विक्लवम् । तरुवृतां पथिकस्य जलार्थिनः सरितमारसितादिव सारसात् ॥ ६ ॥ अथ क्व तत्रभवती । विदूषकः—ऐसा तरुराइमज्झादो णिक्कन्ता इदो एव अहिव- दृन्ती दीसइ । राजा—(विलोक्य सहर्षम् ।) वयस्य, पश्यामि । विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥ सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि । शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा । माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥ विदूषकः—ऐसावि भवं विअ मअणवाहिणा परिसुद्धा भविस्सदि । राजा—सौहार्दमेवं पश्यति । मालविका—अअं सो सुउमालदोहलापेक्खी अगहिदकुसुमणे- १. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । २. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति । ३. अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममा- शोकोऽनुकशेति । यावदस्य प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं विनोदयामि । त्वदुपलभ्येत्यादि । स्पष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्राप्तेः क्रमो नाम संध्यङ्गमुक्तं भवति ॥ एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ॥ विपुलमिति । स्पष्टोऽर्थः ॥ शरकाण्डेति । स्पष्टोऽर्थः ॥ एषापि भवानि-