भारतकोश
संग्रह पर लौटें

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

तृतीयाऽङ्कः । ५३ राजा—शक्यमिदानीं जीवितमवलम्बितुम् । त्वदुपलभ्य समीपगतां प्रियां हृदयमुच्छ्वसितं मम विक्लवम् । तरुवृतां पथिकस्य जलार्थिनः सरितमारसितादिव सारसात् ॥ ६ ॥ अथ क्व तत्रभवती । विदूषकः—ऐसा तरुराइमज्झादो णिक्कन्ता इदो एव अहिव- दृन्ती दीसइ । राजा—(विलोक्य सहर्षम् ।) वयस्य, पश्यामि । विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥ सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि । शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा । माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥ विदूषकः—ऐसावि भवं विअ मअणवाहिणा परिसुद्धा भविस्सदि । राजा—सौहार्दमेवं पश्यति । मालविका—अअं सो सुउमालदोहलापेक्खी अगहिदकुसुमणे- १. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते । २. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति । ३. अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममा- शोकोऽनुकशेति । यावदस्य प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं विनोदयामि । त्वदुपलभ्येत्यादि । स्पष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्राप्तेः क्रमो नाम संध्यङ्गमुक्तं भवति ॥ एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ॥ विपुलमिति । स्पष्टोऽर्थः ॥ शरकाण्डेति । स्पष्टोऽर्थः ॥ एषापि भवानि-

४४ मालविकाग्निमित्रे वच्छो उकण्ठिदाए मह असोओ अणुकरेदि । जाव एदस्स पच्छा- यसीदले सिलापट्टए णिसण्णा अप्पाणं विनोदेमि । विदूषकः—१सुदं भवदा । उकण्ठिदमह्मित्ति तत्तहोदी मन्तेदि । राजा—नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः । वोढा कुरबकरजसां किसलयपुटभेदशीकरानुगतः । अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥ (मालविकोपविष्टा ।) राजा—सखे; इतस्तावत् । आवां लतान्तरितौ भवावः । विदूषकः—२ईरावदिं विअ अदूरे समद्धेमि । राजा—नहि कमलिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । (इति विलोकयन्स्थितः ।) मालविका—हिअअ, णिरवलम्बणादो अदिभूमिलङ्घिणो ते मणोरहादो विरम । किं मं आआसिअ । (विदूषको राजानमपेक्षते ।) राजा—प्रिये, पश्य वामत्वं स्नेहस्य । औत्सुक्यहेतुं विवृणोषि तत्त्वं तत्त्वावबोधैकरसो न तर्कः । तथापि रम्भोरु करोमि लक्ष्य- मात्मानमेषां परिदेवितानाम् ॥ १० ॥ १. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मन्त्रयति । २. इरावतीमिवादूरे समर्थये । ३. हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामा- यास । व मदनव्याधिना परिमृष्टा भविष्यति ॥ अयं स सुकुमारदोहदापेक्ष्यगृहीत- कुसुमनेपथ्य उत्कण्ठिताया मभाशोकोऽनुकरोति । यावदस्य प्रच्छायशीतले शिलापट्टके निषण्णात्मानं विनोदयामि ॥ श्रुतं भवता । उत्कण्ठितास्मीति तत्र- भवती मन्त्रयति ॥ वोढेत्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये । हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामायास ॥ औ- त्सुक्येत्यादि । स्पष्टोऽर्थ ॥ सांप्रतं भवतो निःसंशयं भविष्यति एषार्पित

तृतीयोऽङ्कः। ४५ विदूषकः—संपदं भवदो णिस्संसअं भविस्सदि। एसा अप्पिदमअणसंदेसा विवित्ते णं बउलावलिआ उवट्ठिदा। राजा—अपि स्मरेदसावस्मदभ्यर्थनाम्। विदूषकः—किं² दाणिं एसा दासीए दुहिदा तुह गरुअं संदेसं विसुमरेदि। अहं दाव ण विसुमरेमि। (प्रविश्य चरणांलंकारहस्ता।) बकुलावलिका—³अवि सुहं सहीए। मालविका—⁴अँह्मो बउलावलिआ। सहि, साअदं ते। उवविस; बकुलावलिका—(उपविश्य।) ⁵हँला, तुमं दाणिं जोग्गदाए णि उत्ता। ता एकं चलणं उवणेहि। जाव सालत्तअं सनूउरं च करेमि। मालविका—(आत्मगतम्।) ⁶हिँअअ, सुहिदाए अलं उवट्ठिदो अअं विहवोत्ति। कहं दाणीं अत्ताणं मोचेअं। अहवा दाणिं एदं एव्व मिच्छुमण्डणं मे भविस्सदि। १. सांप्रतं भवतो निःसंशयं भविष्यति। एषार्पितमदनसंदेशा विविक्ते एनां बकुलावलिकोपस्थिता। २. किमिदानीमेषा दास्या दुहिता तव गुरुकं संदेशं विस्मरति। अहं तावन्न विस्मरामि। ३. अपि सुखं सख्याः। ४. अहो बकुलावलिका। सखि, स्वागतं ते। उपविश। ५. सखि, त्वमिदानीं योग्यतया नियुक्ता। तस्मादेकं चरणमुपनय। यावत्सालक्तकं सनूपुरं च करोमि। ६. हृदय, सुखितयालमुपस्थितोऽयं विभव इति। कथमिदानीमात्मानं मोचयेयम्। अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति। मदनसंदेशा विविक्ते एनां बकुलावलिकोपस्थिता॥ किमिदानीमेषा दास्या दुहिता तव गुरुकं संदेशं विस्मरति। अहं तावन्न विस्मरामि॥ अपि सुखं सख्याः॥ अहो बकुलावलिका। सखि, स्वागतं ते। उपविश॥ सखि, त्वमिदानीं योग्य- तया नियुक्ता। तस्मादेकं चरणमुपनय। यावत्सालक्तकं सनूपुरं च करोमि॥ हृदय, सुखितयालमुपस्थितोऽयं विभव इति। कथमिदानीमात्मानं मोचयेयम्।

४६ मालविकाग्निमित्रे बकुलावलिका—किं विआरेसि। ऊसुआ खु इमस्स तवणी- आसोअस्स मुउलुग्गमे देवी। राजा—कथमशोकदोहदनिमित्तोऽयमारम्भः। विदूषकः—किंणु खु जाणासि तुमं। मह कालणादो देवी इमं अन्तेउरणेवच्छेण जोअइस्सदिति। मालविका—हँला, मरिसेहि दाव णं (इति पादमुपहरति।) बकुलावलिका—अँह, सरीरं सि मे। (इति नाटयेन चरणसं- स्कारमारभते।) राजा— चरणान्तनिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम्। प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥ विदूषकः—चेलणाणुरूवो तत्तहोदीए अहिआरो उवक्खित्तो। राजा—सम्यगाह भवान्। १. किं विचारयसि। उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलो- द्गमे देवी। २. किंनु खलु जानासि त्वम्। मम कारणाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति। ३. सखि, मर्षय तावदेनम्। ४. अयि, शरीरमसि मे। ५. चरणानुरूपस्तत्रभवत्या अधिकार उपक्षिप्तः। अथवैदानीमेतदेव मृत्युमण्डनं मे भविष्यति॥ किं विचारयसि। उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलोद्गमे देवी॥ किंनु खलु जानासि त्वम्। मम कार- णाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति॥ सखि, मर्षय तावदेनम्॥ अयि, शरीरमसि मे॥ चरणान्तेत्यादि स्पष्टोऽर्थ च

तृतीयोऽङ्कः । ४७ नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन । अकुसुमितमशोकं दोहदापेक्षया वा प्रणमितशिरसं वा कान्तमाद्रीपराधम् ॥ १२ ॥ विदूषकः—१पहरिस्सदि तत्तहोदी तुमं अवरद्धम् । राजा—मूर्ध्ना प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य । (ततः प्रविशति युक्तमदा इरावती चेटी च ।) इरावती—२हंजे णिउणिए, सुणोमि बहुसो मदो किल इत्थि- आजणस्स मण्डणं ति । अवि सच्चो लोअवाओ अअं । निपुणिका—३पढमं लोअवाओ एव्व । अज्ज सच्चो संवृत्तो । इरावती—४संकित्तणसंसिणा अलं सिणेहेण । कहेहि कुदो दाणिं ओगमिदव्वो दोलाघरं पुढमं गदो भट्ठा ण वेत्ति । निपुणिका—५भट्टिणीए अखण्डिदादो पणआदो । इरावती—६अलं सेवाए । मज्झत्थदं परिगहिअ भणाहि । १. प्रहरिष्यति तत्रभवती त्वामपराधम् । २. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति अपि सत्यो लोकवादोऽयम् । ३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः । ४. संकीर्तनशंसिनालं स्नेहेन । कथय कुत इदानीमवगन्तव्यो दोला- गृहं प्रथमं गतो भर्ता न वेति । ५. भट्टिन्या अखण्डितात्प्रणयात् । ६. अलं सेवया । मध्यस्थतां परिगृह्य भण । अधिकार उपक्षिप्तः ॥नवकिसलयेत्यादि। स्पष्टोऽर्थः ॥ प्रहरिष्यति तत्रभवती त्वामपराधम् ॥ चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डन- मिति । अपि सत्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः ॥ संकीर्तनशंसिनालं स्नेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयात् । अलं सेवया । मध्यस्थतां परिगृह्य भण ॥ बसन्तोपायनलोलुपेनार्यगौतमेन। कथितम् । त्वरतां भट्टिनी । चेटिम,

४८ मालविकाग्निमित्रे निपुणिका—^१वसन्तोआअणलोलुवेण अज्जगोदमेण कहिअं तुवरदु भट्टिणी । इरावती—(अवस्थासदृशं परिक्रम्य ।) ^२हंजे, मदेण किलामिअमाणं अत्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण ण मह पसरन्ति । निपुणिका—^३णं पत्ता दोलाघरं । इरावती—^४णिउणिए, अज्जउत्तोएत्थ ण दीसदि । निपुणिका—^५भट्टिणीए ओलोअदु । परिहासनिमित्तं कहिं वि अदिट्ठेण भत्तुणा होदव्वं । इमं पिअङ्गलदापरिक्खित्तं असोअ- सिलापट्टं पविसामो । इरावती—^६तह । निपुणिका—(विलोक्य ।) ^७ओलोअदु भट्टिणी । चूदङ्कुरं विचि- णन्तीणं पिवीलियाहिं दंसिदं । १. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । त्वरतां भट्टिनी । २. चेटि, मदेन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । च- रणौ पुनर्न मम प्रसरतः । ३. ननु प्राप्ते स्वो दोलागृहम् । ४. निपुणिके, आर्यपुत्रोऽत्र न दृश्यते । ५. भर्तृन्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् । इमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापट्टं प्रविशावः । ६. तथा । ७. अवलोकयतु भट्टिनी । चूताङ्कुरं विचिन्वत्योः पिपीलिकाभिर्दष्टम् । देन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । चरणौ पुनर्न मम प्रसरतः ॥ ननु प्राप्ते स्वो दोलागृहम् ॥ निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ॥ भर्ह्टि- न्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् । इमं प्रियङ्गुलता- परिक्षिप्तमशोकशिलापट्टं प्रविशावः ॥ तथा ^७ अवलोकयतु भट्टिनी । चूताङ्कुरं विचि

तृतीयोऽङ्कः । ४९ इरावती—कहं विज । निपुणिका—ऐसा असोअपाअवच्छाआए मालविआए बउला- वलिआ चलणालंकारं णिव्वट्टेदि । इरावती—(शङ्कां रूपयित्वा ।) अभूमी इअं मालविआए । कहं एत्थ तक्केसि । निपुणिका—तक्केमि दोलापरिब्भंसिदाए सरुअचलणाए दे- वीए असोअदोहलाहिआरे मालविआ णिउत्तेत्ति । अण्णहा कहं देवी सअं धारिअं णूउरजुउलं परिअणस्स अब्भणुजाणिस्सदि । इरावती—महदी क्खु से संभावरणा । निपुणिका—किं अण्णेसीअदि भट्टा । इरावती—हँला, ण मे चलणा अण्णदो पवट्टन्ति । मदो मं १. कथमिव । २. एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणांलंकारं निर्वर्तयति । ३. अभूमिरियं मालविकायाः । कथमत्र तर्कयसि । ४. तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोहदाधिकारे मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंघारितं नूपुरयुगुलं परिजन- स्याभ्यनुज्ञास्यति । ५. महती खल्वस्याः संभावना । ६. किमन्विष्यते भर्ता । ७. सखि, न मे चरणावन्यतः प्रवर्तेते । मदो मां विकारयति । आश- ङ्कितस्य तावदन्तं गमिष्यामि । स्थाने खलु कातरं मे हृदयम् । न्वत्योः पिपीलिकाभिर्दष्टम् । भावे क्तः ॥ कथमिव ॥ एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणांलंकारं निर्वर्तयति ॥ अभूमिरियं मालविकायाः । कथमत्र तर्कयसि ॥ तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोह- दाधिकारे मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंघारितं नूपुरयुगुलं परि- जनस्याभ्यनुज्ञास्यति ॥ महती खल्वस्याः संभावना ॥ किमन्विष्यते भर्ता ॥ सखि, न मे चरणावन्यतः प्रवर्तेते । मदो मां विकारयति । आशङ्कितस्य तावदन्तं ग- माळ० ५

५० मालविकाग्निमित्रे

विआरेदि। आसङ्किदस्स दाव अन्तं गमिस्सं। (इति मालविकां नि- र्वर्ण्य। आत्मगतम्।) ठाणे क्खु कादरं मे हिअअं। बकुलावलिका—(मालविकायै चरणं दर्शयन्ती।) १अवि रोअदि ते राअरेहाविण्णासो। मालविका—२हंला, अत्तणो चलणं ति लज्जेमि णं पसंसिदुं। तेण पसाहणकलाएं अहिविणीदासि। बकुलावलिका—३एत्थ अहं भत्तुणो सीसन्हि। विदूषकः—४तुवरेहि दाव णं गुरुदक्खिणाए। मालविका—दिट्ठि५आ ण गब्बिदासि। बकुलावलिका—६उबदेसाणुरूवा चलणा लब्भिअ अज्ज दाव गब्बिदा भविस्सं। (रागं विलोक्य। आत्मगतम्।) हन्त, सिद्धं मे दु- त्थम्। (प्रकाशम्।) सहि, एक्कस्स दे चलणस्स अवसिदो राअणिक्खेवो। केवलं मुहमारुदो लम्भिइदव्वो। अहवा पवादं एदं ठाणं। १. अपि रोचते ते रागरेखाविन्यासः। २. सखि, आत्मनश्चरण इति लज्जे एनं प्रशंसितुम्। तेन प्रसाधनक- लायामभिविनीतासि। ३. अत्राहं भर्तुः शिष्यास्मि। ४. त्वरय तावदेनां गुरुदक्षिणायै। ५. दिष्ट्या न गर्वितासि। ६. उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्गर्विता भविष्यामि। हन्त, सिद्धं मे दूत्यम्। सखि, एकस्य ते चरणस्यावसितो रागनिक्षेपः। केवलं मुखमारुतो लम्भयितव्यः। अथवा प्रवातमेतत्स्थानम्। मिष्यामि। स्थाने खलु कातरं मे हृदयम्॥ अपि रोचते ते रागरेखाविन्यासः॥ सखि, आत्मनश्चरण इति लज्जे एनं प्रशंसितुम्। तेन प्रसाधनकलायामभिविनी- तासि॥ अत्राहं भर्तुः शिष्यास्मि। त्वरय तावदेनां गुरुदक्षिणायै॥ दिष्ट्या न गर्वितासि॥ उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्गर्विता भविष्यामि। हन्त, सिद्धं मे दूत्यम्। सखि, एकस्य ते ―――― रागनिक्षेप। केवलं मुखमा

तृतीयाऽङ्कः । ५१ राजा—सखे, पश्य । आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् । प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥ विदूषकः—१कुदो दे अणुसओ । चिरं भवदा एदं कमेण अ- णुहविदव्वं । बकुलावलिका—२सेहि, अरुणसदपत्तं विअ सोहदि दे च- रणं । सबहा भत्तुणो अङ्कपरिवट्टिणी होहि । (इरावती निपुणिकामपेक्षते ।) राजा—ममेयमाशीः । मालविका—३मा अवअणीअं मन्तेहि । बकुलावलिका—४मए मन्तइदव्वं एव्व मन्तिदं । मालविका—५पिआ खु अहं तव । बकुलावलिका—६ण केवलं मह । मालविका—७कस्स खु अण्णस्स । १. कुतस्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् । २. सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि- वर्तिनी भव । ३. मा अवचनीयं मन्त्रयस्व । ४. मया मन्त्रयितव्यमेव मन्त्रितम् । ५. प्रिया खल्वहं तव । ६. न केवलं मम । ७. कस्य खल्वन्यस्य । स्तो लम्भयितव्यः । अथवा प्रवातमेतत्स्थानम् ॥ आर्द्रालक्तकमित्यादि । मुखमारुतेन वीजयितुं शोषयितुं प्रथमसरो मुख्यतरः प्रतिपन्नः प्राप्तः ॥ कुत- स्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्त्रयस्व ॥ मया मन्त्रयितव्यमेव मन्त्रितम् ॥ प्रिया खल्वहं तव ॥ न केवलं मम ॥ कस्य खल्व-

५२ मालविकाग्निमित्रे बकुलावलिका—^१गुणेसु अहिणिवेसणो भत्तुणो वि । मालविका—^२अलीअं मन्तेसि । एदं एव्व मइ णत्थि । बकुलावलिका—^३सच्चं तुइ णत्थि । भत्तुणो किसेसु वरपण्डुरेसु दीसइ अङ्गेसु निपुणिका—^४पुढमं गुणिदं विअ हदासाए उत्तरं । बकुलावलिका—^५अणुराओ अणुराएण पच्छेइव्वो त्ति सुअ- णवअणं पमाणीकरेहि । मालविका—^६किं अत्तणो छन्देण मन्तेसि । बकुलावलिका—^७णहि णहि । भत्तुणो खु एदाई पणअमिदु- आईं अक्खराई वत्तन्तरिदाई । मालविका—^८हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि । बकुलावलिका—^९मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा- रसस्र्वस्सं किं ण चूदप्पसवो ओदंसिदव्वो । १. गुणेष्वभिनिवेशिनो भर्तुरपि । २. अलीकं मन्त्रयसे । एतदेव मयि नास्ति । ३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु । ४. प्रथमं गुणितमिव हताशाया उत्तरम् । ५. अनुरागोऽनुरागेण प्रष्टेष्टव्य इति सुजनवचनं प्रमाणीकुरु । ६. किमात्मनश्छन्देन मन्त्रयसे । ७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्त्रान्तरितानि । ८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति । ९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत- प्रसवोऽवतंसितव्यः । न्यास ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥ सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥ किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्ष- राणि वक्त्रान्तरितानि ॥ सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न ... ॥

तृतीयोऽङ्कः । ५३ मालविका—तुमं दाव दुज्जादे अच्चंतं सहाया होहि । बकुलावलिका—विमद्देसुरही बउलावलिआ खु अहं । राजा—साधु बकुलावलिके, साधु । भावज्ञानानन्तरं प्रस्तुतेन प्रत्याख्याने दत्तयुक्तोत्तरेण । वाक्येनेयं स्थापिता स्वे निदेशे स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥ इरावती—पेक्ख । कारिदं एव्व बउलावलिआए एदं पदं मालविआए । निपुणिका—भट्टिणि, अहिआरस्स उइदो उवदेसो । इरावती—ठाणे खु संकिदं मे हिअअं । गहीदत्था अणन्तरं चिन्तइस्सं । बकुलावलिका—एसो दुदीओवि दे णिव्वुत्तपरिकम्मा चलणो । जाव णं सणूउरं करेमि । (इति नाट्येन नूपुरयुगलमामुच्य ।) हला, उ- ट्ठेहि । असोअविआसइत्तअं देवीए णिओअं अणुचिट्ठ । (उभे उत्तिष्ठतः ।) १. त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव । २. विमर्दसुरभिर्बकुलावलिका खल्वहम् । ३. पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः । ४. भट्टिनि, अधिकारस्योचित उपदेशः । ५. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि । ६. एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । यावदेनं सनूपुरं क- रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ । त्वं तावद्दुर्जाते दुःखेऽत्यन्तं सहाया भव । 'दुर्वातं व्यसने क्लीबमसम्यग्जात- वस्तुनि' इति केशवस्वामी ॥ विमर्दसुरभिर्बकुलावलिका खल्वहम् ॥ भावज्ञाने- त्यादि । स्पष्टोऽर्थः ॥ पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ॥ भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । गृही- तार्थानन्तरं चिन्तयिष्यामि । एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । या- वदेनं सनूपुरं करोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोग-

५४ मालविकाग्निमित्रे इरावती—सुदो देवीए णिओओ। होदु दाणिं। बकुलावलिका—एसो उवारूढराओ उअभोअक्खमो पुर दे वट्टइ। मालविका—(सहर्षम्।) किं भट्टा। बकुलावलिका—(सस्मितम्।) ण दाव भट्टा। एसो असोअस हावलम्बि पल्लवगुच्छओ। ओदंसेहि णं। विदूषकः—सुदं भवदा। राजा—सखे, पर्याप्तमेतावता कामिनाम्। अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति। परस्परप्राप्तिनिराशयोर्र्वरं शरीरनाशोऽपि समानुरागयोः ॥ १५ ॥ (मालविका रचितपल्लवावतंसा पादमशोकाय प्रहिणोति।) राजा—वयस्य, आदाय कर्णकिसलयमसादियमत्र चरणमर्पयति। उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ १६ ॥ १. श्रुतो देव्या नियोगः। भवत्विदानीम्। २. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते। ३. किं भर्ता ! ४. न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतं सयैनम्। ५. श्रुतं भवता। मनुतिष्ठ ॥ श्रुतो देव्या नियोगः। भवत्विदानीम् ॥ एष उपारूढराग उपभोगक्षम पुरतस्ते वर्तते ॥ किं भर्ता ॥ न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतंसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि। अनातुरोत्कण्ठितयोः। अना तुरोऽनार्तः। उत्कण्ठितः कामोत्कण्ठित इत्यर्थः। प्रसिध्यता संभवता समागमे नापि संसर्गेणापि मां प्रति मामनु। मत्पक्ष इत्यर्थः। रतिर्न शृङ्गारो=भवति। एकानुरागस्य रसाभासत्वात्। तथा चोक्तम्—‘एकत्रैवानुरागश्चेद्वहुसक्तिश्च योषितः। अनौचित्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥’ इति। शेषं स्पष्टम् ॥ आदायेत्यादि। कर्णकिसलयं कर्णपूरार्थं किसलयम् अत्र कर्णशब्देन कर्णपूरो लक्ष्यते ससि

तृतीयोऽङ्कः । ५५ बकुलावलीका—हंला, णत्थि दे दोसो। णिग्गुणो अअं असो- ओ जइ कुसुमोब्भेदमन्धरो हवे, जो दे चलणसक्कारं लब्भिअ । राजा— अनेन तनुमध्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन संभावितः । अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १७ ॥ सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि । विदूषकः—एहि । णं परिहासइस्सं । (उभौ प्रवेशं कुरुतः ।) निपुणिका—भट्टिणि भट्टिणि, भट्ठा एत्थ पविसदि । इरावती—एव्वं पुढमं मम चिन्तिदं हिअएण । विदूषकः—(उपेत्य ।) जुत्तं णाम अत्तहोदो पिअवअस्सो अअं असोओ णं वामपादेण ताडिदुं । उभे—(ससंभ्रमम् ।) अह्मो, भट्ठा । १. सखि, नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदम- न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा । २. एहि । एनां परिहासिष्यामि । ३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति । ४. एवं प्रथमं मम चिन्तितं हृदयेन । ५. युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । ६. अहो, भर्ता । नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्धरो भवेत्, यस्ते चरणस- त्कारं लब्ध्वा ॥ अनेनेत्यादि । स्पष्टोऽर्थः ॥ एहि। एनां परिहासयिष्यामि ॥ भट्टिनि भट्टिनि, भर्तात्र प्रविशति ॥ एवं प्रथमं मम चिन्तितं हृदयेन ॥ युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । 'जुत्तं णाम' इत्यत्र काकुरनुसं-

५६ मालविकाग्निमित्रे विदूषकः-बँउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं अविणअं करन्ती कीस ण णिआरिदा । ( मालविका भयं रूपयति ।) निपुणिका-भट्टिणि, पेक्ख । किं पउत्तं अज्जगोदमेण । इरावती-कहं खु बम्हबन्धु अण्णहा होदि । बकुलावलिका-अज्ज एसा देवीए णिओअं अणुचिट्ठदि । एदस्सि अदिक्कमे परवदी इअं । पसीददु भट्टा । (इत्यात्मना सहैना प्रणिपातयति ।) राजा-यद्येवमनपराधासि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वै- नामुत्थापयति ।) विदूषकः-जुज्जइ । देवी एत्थ माणइदव्वा । राजा- किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे । चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥ (मालविका लज्जां रूपयति ।) १. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न निवारिता । २. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन । ३. कथं खलु ब्रह्मबन्धुरन्यथा भवति । ४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव- तीयम् । प्रसीदतु भर्ता । ५. युज्यते । देव्यत्र मानयितव्या । धेया ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्सम्भ्रमणं नाम संध्यङ्गमुक्तं भवति ॥ भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म- बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति। एतस्मिन्नतिक्रमे परवती- यम्। प्रसीदतु भर्ता ॥ युज्यते। देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।

तृतीयोऽङ्कः । ५७ इरावती—अहो णवणीदकप्पहिअओ अज्जउत्तो । मालविका—बेउलावलिए, एहि । अणुचिट्ठिदं अत्तणो णि- ओअं देवीए णिवेदेह्म । बकुलावलिका—विष्णोवेहि भट्‍टारं विसज्जेहित्ति । राजा—भद्रे, यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् । बकुलावलिका—अवहिदा सुणाहि । आणवेदु भट्‍टा । राजा— धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति । स्पर्शामृतेन पूरय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥ इरावती—(सहसोपसृत्य ।) पूरेहि पूरेहि । असोओ कुसुमं ण दंसेदि । अअं उण पुप्फदि एव । (सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः ।) राजा—(अपवार्य्य ।) वयस्य, का प्रतिपत्तिरत्र । विदूषकः—किं अण्णं । जङ्घाबलं एव । १. अहो नवनीतकल्पहृदय आर्यपुत्रः । २. बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः । ३. विज्ञापय भर्तारं विसर्जयेति । ४. अवहिता शृणु । आज्ञापयतु भर्ता । ५. पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्यत्येव । ६. किमन्यत् । जङ्घाबलमेव । स्पष्टोऽर्थः । अत्र प्रसक्त्या संग्रहो नाम संध्यङ्गमुक्तं भवति ॥ अहो नवनीतकल्प- हृदय आर्यपुत्रः ॥ बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवे- दयावः ॥ विज्ञापय भर्तारं विसर्जयेति ॥ अवहिता शृणु । आज्ञापयतु भर्ता ॥ धृतिपुष्पेति । स्पष्टोऽर्थः ॥ पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्यत्येव । अत्र संरम्भवचनात्तोटकं नाम संध्यङ्गमुक्तं भवति ॥ वयस्येत्या- दि । का प्रतिपत्तिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानार्थ- त्वाद्द्वेगो नाम संध्यङ्गमुक्तं भवति ॥ किमन्यत् । जङ्घाबलमेव ॥ बकुलावलिके,

तृतीय अङ्क: दोहद सत्कार, अशोक वृक्ष व इरावती मान

५८ इरावती—^१बउलावलिए, तुए साहु उवक्कन्तं। दाणिं सफलब्भ- त्थणं करेहि उज्जउत्तं। उभे—^२पसीददु भट्टिणी। काओ अह्मे भत्तुणो पणअपरिग्ग- हस्स। (इति निष्क्रान्ते।) इरावती—^३अविस्सणीआ पुरिसा। अत्तणो वञ्चणवअणं पमाणीकरिअ अक्खित्ताए बाहजणगीदगहीदचित्ताए विअ हरिणीए एदं ण विण्णादं। विदूषकः—(जनान्तिकम्।) ^४पडिओएहि दाणिं किंपि। कम्म- ग्गहीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओम्हित्ति वत्तव्वं होदि। राजा—सुन्दरि, न मे मालविकया कश्चिदर्थः। मया त्वं चि- रयसीति यथाकथंचिदात्मा विनोदितः। इरावती—^५विस्संसणीओसि। मएं ण विण्णादं ईरिसं विनोदव- १. बकुलावलिके, त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कु- र्वार्यपुत्रम्। २. प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य। ३. अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चनावचनं प्रमाणीकृत्या- क्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम्। ४. प्रतियोजयेदानीं किमपि। कर्मगृहीतेनापि कुम्भीलकेन संधिच्छेदे शिक्षितोऽस्मीति वक्तव्यं भवति। ५. विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोप- लब्धमिति। अन्यथा दुःखभागिन्यैवं न क्रियते। त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कुर्वार्थपुत्रम्॥ प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य॥ अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चना- वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्येवैतन्न विज्ञा- तम्। एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि। संधेः कृत्रिमभूसंघेश्छेदे भेदने। सुरङ्गाकरण इत्यर्थः। शिक्षितः अभ्यसितोऽस्मीति वक्तव्यं भवति। किमपि प्रतियोजय। उपपन्नमनुपपन्नं वा उत्तरं कुर्वित्यर्थः। विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति।

तृतीयोऽङ्कः । ५९ त्थुअं अज्जउत्तेण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण करीअदि । विदूषकः—मा तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणिदुं समावत्तिदिट्ठेण देवीए परिअणेण संकहाअबराहेण संधावीअदु । इत्थ तुमं एव्व पमाणं । इरावती—णं संकहा णाम होदु । किंति अत्ताणं आआ- सइस्सं । (इति रुषा प्रस्थिता ।) राजा—(अनुसरन् ।) प्रसीदतु भवती । (इरावती रशनासंधारितचरणा व्रजत्येव ।) राजा—सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता । इरावती—सँठ, अविस्ससणीअहिअओसि । राजा— शठ इति मयि तावदस्तु ते परिचयवत्यवधीरणा प्रिये । चरणपतितया न चण्डितां विसृजसि मेखलयापि याचिता ॥ २० ॥ इरावती—इँअं पि हदासा तुमं एव्व अणुसरदि । (इति रशना- मादाय राजानं ताडयितुमिच्छति ।) १. मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् । २. ननु संकथा नाम भवतु । किमित्यात्मानमायासिष्यामि । ३. शठ, अविश्वसनीयहृदयोऽसि । ४. इयमपि हताशा त्वामेवानुसरति । अन्यथा दुःखभागिन्यैवं न क्रियते ॥ विश्वसनीय इत्यत्र विपरीतलक्षणानुसंधेया ॥ मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ॥ ननु संकथा नाम भवतु । किमित्यात्मानमायासिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि । हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।

६० मालविकाग्निमित्रे राजा—इयमिरावती बाष्पसारा हेमकाञ्चीगुणेन श्रोणीबिम्बादप्युपेक्षाच्युतेन । चण्डी चण्डं हन्तुमभ्युद्यता मां विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥ २१ ॥ इरावती—किं^१ मं एव भूओ वि अवरद्धं करेसि । राजा—(सरशनं हस्तमवलम्बयति ।) अपराधिनी मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि । वर्धयसे विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥ नूनमिदमनुज्ञातम् । (इति पादयोः पतति ।) इरावती—णे^२ खु इमे मालविआचलणा, जा दे हरिसदोह पूरियिस्सन्ति । (इति निष्क्रान्ता सह चेट्या !) विदूषकः—उट्ठेहि^३ । किदप्पसादोऽसि । राजा—(उत्थाय इरावतीमपश्यन् ।) कथं गतैव प्रिया । विदूषकः—वँअस्स^४, दिट्ठिआ इमस्स अविणअस्स अप्पसण्ण १. किं मामेव भूयोऽप्यपराद्धां करोषि । २. न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः । ३. उत्तिष्ठ । कृतप्रसादोऽसि । ४. वयस्य, दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा तद्वयं शीघ्रमपक्र- मामः । यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति । तस्मिन्मयि शठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति परिचयादवज्ञा' इति वदन्ति । तस्मादियमवधीरणा युक्तैवेत्यर्थः । हे चण्डि अ त्यन्तकोपने, चरणपतितया मेखलया रशनया याचितापि प्रार्थितापि तामवधीरणां न विसृजसि न त्यजसि । किमिदं युक्तमिति शेषः ॥ इयमपि हताशा त्वामेवानु सरति ॥ बाष्पसारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥ अपराधिनीत्यादि । स्पष्टोऽर्थः ॥ नूनमित्यादि । इदमेतद्रशनासंहरणमनु ज्ञातमनुमतम् । मत्प्रार्थनाया इति शेषः ॥ न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः ॥ उत्तिष्ठ । कृतप्रसादोऽसि । वयस्य, दिष्ट्या अनेनाविनयेना

गदा एसा । ता वअं सिग्धं अवक्कमाम । जाव अङ्गारओ रासिं वि- अ अणुवक्कं परिगमणं ण करेदि । राजा—अहो मदनस्य वैषम्यम् । मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् । एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥ (इति निष्क्रान्तः सह वयस्येन ।) इति तृतीयोऽङ्कः ।


प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति- गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहतमनाः प्रणि- पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः फलमाह—कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि- पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति निपातः। अत्र बीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो- त्तराङ्ककथोपयोगित्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥


माल० ६

६२ मालविकाग्निमित्रे चतुर्थोऽङ्कः । (ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।) राजा—(आत्मगतम् ।) तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः संप्राप्तायां नयनविषयं रूढरागः प्रवालः । हस्तस्पर्शैर्मुकुलित इव व्यक्तरोमोद्गमत्वा- त्कुर्यात्कान्तं मनसिजतरुर्मा रसज्ञं फलस्य ॥ (प्रकाशम् ।) सखे गौतम । प्रतीहारी—जेदुं जेदु भट्ठा । असंणिहिदो गोदमो राजा—(आत्मगतम् ।) आः, मालविकावृत्तान्तज्ञान- प्रेषितः । (प्रविश्य ।) विदूषकः—२वड्ढदु भवं ! राजा—जयसेने, जानीहि तावत्क्व देवी धारिणी त्वाद्विनोद्यत इति । प्रतीहारी—३जं देवो आणवेदि । (इति निष्क्रान्ता ।) राजा—गौतम, को वृत्तान्तस्तत्रभवत्यास्ते सख्याः । विदूषकः—४जो बिडालगहीदाए परहुदिआए । राजा—(सविषादम् ।) कथमिव । १. जयतु जयतु भर्ता । असंनिहितो गौतमः । २. वर्धतां भवान् । ३. यद्देव आज्ञापयति । ४. यो बिडालगृहीतायाः परभृतिकायाः । कविरिदानीमङ्कान्तरमारभते—ततः प्रविशतीत्यादिना । त कुलित इव संजातमुकुल इव कान्तं कामनायुक्तं कुर्यादिति प्रार्थनायां प्रसङ्गितं बीजं प्रकरीस्थाने कृतमिति मन्तव्यम् ॥ जयतु जयतु भर्त हितो गौतम वर्धतां भवान् ॥ यद्देव आज्ञापयति ॥ यो बिडालगृही