भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 58, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 58

तृतीयोऽङ्कः । ५५ बकुलावलीका—हंला, णत्थि दे दोसो। णिग्गुणो अअं असो- ओ जइ कुसुमोब्भेदमन्धरो हवे, जो दे चलणसक्कारं लब्भिअ । राजा— अनेन तनुमध्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन संभावितः । अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १७ ॥ सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि । विदूषकः—एहि । णं परिहासइस्सं । (उभौ प्रवेशं कुरुतः ।) निपुणिका—भट्टिणि भट्टिणि, भट्ठा एत्थ पविसदि । इरावती—एव्वं पुढमं मम चिन्तिदं हिअएण । विदूषकः—(उपेत्य ।) जुत्तं णाम अत्तहोदो पिअवअस्सो अअं असोओ णं वामपादेण ताडिदुं । उभे—(ससंभ्रमम् ।) अह्मो, भट्ठा । १. सखि, नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदम- न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा । २. एहि । एनां परिहासिष्यामि । ३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति । ४. एवं प्रथमं मम चिन्तितं हृदयेन । ५. युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । ६. अहो, भर्ता । नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्धरो भवेत्, यस्ते चरणस- त्कारं लब्ध्वा ॥ अनेनेत्यादि । स्पष्टोऽर्थः ॥ एहि। एनां परिहासयिष्यामि ॥ भट्टिनि भट्टिनि, भर्तात्र प्रविशति ॥ एवं प्रथमं मम चिन्तितं हृदयेन ॥ युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । 'जुत्तं णाम' इत्यत्र काकुरनुसं-