भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 59, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 59

५६ मालविकाग्निमित्रे विदूषकः-बँउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं अविणअं करन्ती कीस ण णिआरिदा । ( मालविका भयं रूपयति ।) निपुणिका-भट्टिणि, पेक्ख । किं पउत्तं अज्जगोदमेण । इरावती-कहं खु बम्हबन्धु अण्णहा होदि । बकुलावलिका-अज्ज एसा देवीए णिओअं अणुचिट्ठदि । एदस्सि अदिक्कमे परवदी इअं । पसीददु भट्टा । (इत्यात्मना सहैना प्रणिपातयति ।) राजा-यद्येवमनपराधासि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वै- नामुत्थापयति ।) विदूषकः-जुज्जइ । देवी एत्थ माणइदव्वा । राजा- किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे । चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥ (मालविका लज्जां रूपयति ।) १. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न निवारिता । २. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन । ३. कथं खलु ब्रह्मबन्धुरन्यथा भवति । ४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव- तीयम् । प्रसीदतु भर्ता । ५. युज्यते । देव्यत्र मानयितव्या । धेया ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्सम्भ्रमणं नाम संध्यङ्गमुक्तं भवति ॥ भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म- बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति। एतस्मिन्नतिक्रमे परवती- यम्। प्रसीदतु भर्ता ॥ युज्यते। देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।