मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 57, कुल 111 में से
संदर्भ में पढ़ें५४ मालविकाग्निमित्रे इरावती—सुदो देवीए णिओओ। होदु दाणिं। बकुलावलिका—एसो उवारूढराओ उअभोअक्खमो पुर दे वट्टइ। मालविका—(सहर्षम्।) किं भट्टा। बकुलावलिका—(सस्मितम्।) ण दाव भट्टा। एसो असोअस हावलम्बि पल्लवगुच्छओ। ओदंसेहि णं। विदूषकः—सुदं भवदा। राजा—सखे, पर्याप्तमेतावता कामिनाम्। अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति। परस्परप्राप्तिनिराशयोर्र्वरं शरीरनाशोऽपि समानुरागयोः ॥ १५ ॥ (मालविका रचितपल्लवावतंसा पादमशोकाय प्रहिणोति।) राजा—वयस्य, आदाय कर्णकिसलयमसादियमत्र चरणमर्पयति। उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ १६ ॥ १. श्रुतो देव्या नियोगः। भवत्विदानीम्। २. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते। ३. किं भर्ता ! ४. न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतं सयैनम्। ५. श्रुतं भवता। मनुतिष्ठ ॥ श्रुतो देव्या नियोगः। भवत्विदानीम् ॥ एष उपारूढराग उपभोगक्षम पुरतस्ते वर्तते ॥ किं भर्ता ॥ न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतंसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि। अनातुरोत्कण्ठितयोः। अना तुरोऽनार्तः। उत्कण्ठितः कामोत्कण्ठित इत्यर्थः। प्रसिध्यता संभवता समागमे नापि संसर्गेणापि मां प्रति मामनु। मत्पक्ष इत्यर्थः। रतिर्न शृङ्गारो=भवति। एकानुरागस्य रसाभासत्वात्। तथा चोक्तम्—‘एकत्रैवानुरागश्चेद्वहुसक्तिश्च योषितः। अनौचित्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥’ इति। शेषं स्पष्टम् ॥ आदायेत्यादि। कर्णकिसलयं कर्णपूरार्थं किसलयम् अत्र कर्णशब्देन कर्णपूरो लक्ष्यते ससि