मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 56, कुल 111 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ५३ मालविका—तुमं दाव दुज्जादे अच्चंतं सहाया होहि । बकुलावलिका—विमद्देसुरही बउलावलिआ खु अहं । राजा—साधु बकुलावलिके, साधु । भावज्ञानानन्तरं प्रस्तुतेन प्रत्याख्याने दत्तयुक्तोत्तरेण । वाक्येनेयं स्थापिता स्वे निदेशे स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥ इरावती—पेक्ख । कारिदं एव्व बउलावलिआए एदं पदं मालविआए । निपुणिका—भट्टिणि, अहिआरस्स उइदो उवदेसो । इरावती—ठाणे खु संकिदं मे हिअअं । गहीदत्था अणन्तरं चिन्तइस्सं । बकुलावलिका—एसो दुदीओवि दे णिव्वुत्तपरिकम्मा चलणो । जाव णं सणूउरं करेमि । (इति नाट्येन नूपुरयुगलमामुच्य ।) हला, उ- ट्ठेहि । असोअविआसइत्तअं देवीए णिओअं अणुचिट्ठ । (उभे उत्तिष्ठतः ।) १. त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव । २. विमर्दसुरभिर्बकुलावलिका खल्वहम् । ३. पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः । ४. भट्टिनि, अधिकारस्योचित उपदेशः । ५. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि । ६. एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । यावदेनं सनूपुरं क- रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ । त्वं तावद्दुर्जाते दुःखेऽत्यन्तं सहाया भव । 'दुर्वातं व्यसने क्लीबमसम्यग्जात- वस्तुनि' इति केशवस्वामी ॥ विमर्दसुरभिर्बकुलावलिका खल्वहम् ॥ भावज्ञाने- त्यादि । स्पष्टोऽर्थः ॥ पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ॥ भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । गृही- तार्थानन्तरं चिन्तयिष्यामि । एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । या- वदेनं सनूपुरं करोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोग-