मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 55, कुल 111 में से
संदर्भ में पढ़ें५२ मालविकाग्निमित्रे बकुलावलिका—^१गुणेसु अहिणिवेसणो भत्तुणो वि । मालविका—^२अलीअं मन्तेसि । एदं एव्व मइ णत्थि । बकुलावलिका—^३सच्चं तुइ णत्थि । भत्तुणो किसेसु वरपण्डुरेसु दीसइ अङ्गेसु निपुणिका—^४पुढमं गुणिदं विअ हदासाए उत्तरं । बकुलावलिका—^५अणुराओ अणुराएण पच्छेइव्वो त्ति सुअ- णवअणं पमाणीकरेहि । मालविका—^६किं अत्तणो छन्देण मन्तेसि । बकुलावलिका—^७णहि णहि । भत्तुणो खु एदाई पणअमिदु- आईं अक्खराई वत्तन्तरिदाई । मालविका—^८हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि । बकुलावलिका—^९मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा- रसस्र्वस्सं किं ण चूदप्पसवो ओदंसिदव्वो । १. गुणेष्वभिनिवेशिनो भर्तुरपि । २. अलीकं मन्त्रयसे । एतदेव मयि नास्ति । ३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु । ४. प्रथमं गुणितमिव हताशाया उत्तरम् । ५. अनुरागोऽनुरागेण प्रष्टेष्टव्य इति सुजनवचनं प्रमाणीकुरु । ६. किमात्मनश्छन्देन मन्त्रयसे । ७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्त्रान्तरितानि । ८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति । ९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत- प्रसवोऽवतंसितव्यः । न्यास ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥ सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥ किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्ष- राणि वक्त्रान्तरितानि ॥ सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न ... ॥