मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 64, कुल 111 में से
संदर्भ में पढ़ेंगदा एसा । ता वअं सिग्धं अवक्कमाम । जाव अङ्गारओ रासिं वि- अ अणुवक्कं परिगमणं ण करेदि । राजा—अहो मदनस्य वैषम्यम् । मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् । एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥ (इति निष्क्रान्तः सह वयस्येन ।) इति तृतीयोऽङ्कः ।
प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति- गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहतमनाः प्रणि- पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः फलमाह—कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि- पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति निपातः। अत्र बीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो- त्तराङ्ककथोपयोगित्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥
माल० ६