मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 63, कुल 111 में से
संदर्भ में पढ़ें६० मालविकाग्निमित्रे राजा—इयमिरावती बाष्पसारा हेमकाञ्चीगुणेन श्रोणीबिम्बादप्युपेक्षाच्युतेन । चण्डी चण्डं हन्तुमभ्युद्यता मां विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥ २१ ॥ इरावती—किं^१ मं एव भूओ वि अवरद्धं करेसि । राजा—(सरशनं हस्तमवलम्बयति ।) अपराधिनी मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि । वर्धयसे विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥ नूनमिदमनुज्ञातम् । (इति पादयोः पतति ।) इरावती—णे^२ खु इमे मालविआचलणा, जा दे हरिसदोह पूरियिस्सन्ति । (इति निष्क्रान्ता सह चेट्या !) विदूषकः—उट्ठेहि^३ । किदप्पसादोऽसि । राजा—(उत्थाय इरावतीमपश्यन् ।) कथं गतैव प्रिया । विदूषकः—वँअस्स^४, दिट्ठिआ इमस्स अविणअस्स अप्पसण्ण १. किं मामेव भूयोऽप्यपराद्धां करोषि । २. न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः । ३. उत्तिष्ठ । कृतप्रसादोऽसि । ४. वयस्य, दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा तद्वयं शीघ्रमपक्र- मामः । यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति । तस्मिन्मयि शठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति परिचयादवज्ञा' इति वदन्ति । तस्मादियमवधीरणा युक्तैवेत्यर्थः । हे चण्डि अ त्यन्तकोपने, चरणपतितया मेखलया रशनया याचितापि प्रार्थितापि तामवधीरणां न विसृजसि न त्यजसि । किमिदं युक्तमिति शेषः ॥ इयमपि हताशा त्वामेवानु सरति ॥ बाष्पसारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥ अपराधिनीत्यादि । स्पष्टोऽर्थः ॥ नूनमित्यादि । इदमेतद्रशनासंहरणमनु ज्ञातमनुमतम् । मत्प्रार्थनाया इति शेषः ॥ न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः ॥ उत्तिष्ठ । कृतप्रसादोऽसि । वयस्य, दिष्ट्या अनेनाविनयेना