मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 5, कुल 111 में से
संदर्भ में पढ़ें२ मालविकाग्निमित्रे (नान्द्यन्ते) सूत्रधारः—(नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् । (प्रविश्य ।) पारिपार्श्विकः—भाव, अयमस्मि । सूत्रधारः—अभिहितोऽस्मि विद्वत्परिषदा कालिदासग्रथितवस्तु मालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति । तदारभ्यतां संगीतम् । पारिपार्श्विकः—मा तावत् । प्रथितयशसां भाससौमिल्लकक- विपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं बहुमानः । सूत्रधारः—अयि, विवेकभ्रस्तमभिहितम् । पश्य । सर्वं जगल्लोकं बिभ्रतोऽपि धारयतोऽपि यस्याभिमानः प्रणयो ममत्वं न भवति । एषु विशेषणेषु विरोधाऽलंकारेणासेश्वरस्य लोकातिशायित्वमुक्तं भवति । अत्र प्रण- तबहुफल एकैश्वर्यस्थित्या कान्तासंमिश्रणेन जगद्धरणेन ईश इत्यनेन च लोकोत्तरः कश्चिद्राजास्मिन्नाटके वर्ण्यत इति सूच्यते । सन्मार्गालोकनायेत्यनेनात्र कश्चिन्मा- र्गाभिनयः प्रतिपाद्यत इति सूच्यते । मार्गो नाम नाट्यविशेषः । तथोक्तम्— 'मार्गोऽपि देशी तद्भेदः कथितो नाट्यवेदिभिः । अत्र मार्गो भवेन्नाट्यं नाट्यवे- दोक्तलक्षणम् ॥' इति । एष नान्दीश्लोकः । नान्द्यादिलक्षणं तु शाकुन्तलव्याख्यान एवाभिहितम् । अत्र 'पदादिनियमोऽपि वा' इति विकल्पात्पदादिनियमाभावः ॥ अथ प्रस्तावनां विवक्षुस्तदङ्गयोः प्ररोचनामुखयोः प्ररोचनां प्रस्तौति—नान्द्यन्ते सूत्रधार इत्यादिना । मारिष, इतस्तावत् । आगम्यतामिति शेषः । नटः सू- त्रधारेण मारिष इति वाच्यः । 'सूत्री नटेन भावेति तेनासौ मारिषेति च' इत्यु- क्तत्वात् ॥ परिपार्श्वं यथा भवति तथा वर्तत इति पारिपार्श्विकः । नट इत्यर्थः । 'परिमुखं च' इत्यत्र चकाराद्वक् ॥ अभिहितोऽस्मीत्यादि । विद्वत्परिषदा विदुषां विपश्चितां परिषत्स्रभा तया । अनेन सभाप्रशंसा कृता । कालिदासग्रथि- तवस्तु कालिदासेन ग्रथितं वस्तु कथा यस्मिंस्तत्तथोक्तम् । मालविकाग्निमित्रम् । 'अधिकृत्य कृते ग्रन्थे' इत्यण् । यथा मालतीमाधवम् । वसन्तोत्सव इत्यनेन का- लनिर्देशः कृतः । संगीतं तौर्यत्रिकम् । तथा चोक्तं संगीतरत्नाकरे—'नृत्तं गीतं तथा वाद्यं त्रयं संगीतमुच्यते' इति । आरभ्यतां प्रयोक्तुं यत्नः क्रियताम् ॥ मा तावत् मा इति निवारणे । भास कविपुत्र-सौमिल्लका कवय प्राञ्चना । प्रबन्धा- न्=रूपकाणि । १ परित्यज्येत्यर्थः